मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९३, ऋक् ११

संहिता

अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् ।
आ या॑त॒मुप॑ न॒ः सचा॑ ॥

पदपाठः

अग्नी॑षोमौ । इ॒मानि॑ । नः॒ । यु॒वम् । ह॒व्या । जु॒जो॒ष॒त॒म् ।
आ । या॒त॒म् । उप॑ । नः॒ । सचा॑ ॥

सायणभाष्यम्

हे अग्नीषोमौ युवं युवां नोऽस्मदीयानीमानि हव्या हवींषि जुजोषतम् । सेवेथाम् । तदर्थं नोस्मान् सचा सह युवामुपा यातम् । उपागच्छतं ॥ जुजोषतम् । जुषी प्रीतिसेवनयोः । लोट व्यत्ययेन शप् । छांदसं द्विर्वचनम् । यद्वा । विकरणस्य बहुलं छंदसीति श्लुः । ततो व्यत्ययेन शप् । बहुलं छंदसीति वक्तव्यमिति वचनान्नाभ्यस्तस्याचि पितीति लघूपधगुणप्रतिषेधाभावः ॥ ११ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९