मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९३, ऋक् १२

संहिता

अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यन्तामु॒स्रिया॑ हव्य॒सूदः॑ ।
अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मन्त॑म् ॥

पदपाठः

अग्नी॑षोमा । पि॒पृ॒तम् । अर्व॑तः । नः॒ । आ । प्या॒य॒न्ता॒म् । उ॒स्रियाः॑ । ह॒व्य॒ऽसू॒दः॑ ।
अ॒स्मे इति॑ । बला॑नि । म॒घव॑त्ऽसु । ध॒त्त॒म् । कृ॒णु॒तम् । नः॒ । अ॒ध्व॒रम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥

सायणभाष्यम्

हे अग्नीषोमौ नोऽस्माकमर्वतोऽश्वान्पिपृतम् । पालयतम् । हव्यसूदः क्षीरादिहविष उत्पादयित्र्य उस्रिया अस्मदीया गावश्चा प्यायंताम् । आप्यायिताः प्रवृद्थाः संतु । मघवत्सु हविर्लक्षणधनयुक्तेष्वस्मे अस्मासु बलानि धत्तम् । स्थापयतम् । तथा नोऽस्माकमध्वरं यागं श्रुष्टिमंतं धनयुक्तं कृणुतम् । कुरुतं ॥ पिपृतम् । पृ पालनपूरणयोः । पृ इत्येके । जुहोत्यादित्वाच्छपः श्लुः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । हव्यसूदः । हव्यं सूदंते क्षरंतीति हव्यसूदः । षूद क्षरणे । क्विप्चेति क्विप् । अस्मे । सुपां सुलुगिति सप्तम्याः शे आदेशः । श्रुष्टिमंतम् । श्रुष्टीति धननाम । शु आश्वश्यते व्याप्यत इति श्रुष्टिः । पृषोदरादिः । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वं ॥ १२ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९