मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् ११

संहिता

अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् ।
सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

अध॑ । स्व॒नात् । उ॒त । बि॒भ्युः॒ । प॒त॒त्रिणः॑ । द्र॒प्साः । यत् । ते॒ । य॒व॒स॒ऽअदः॑ । वि । अस्थि॑रन् ।
सु॒ऽगम् । तत् । ते॒ । ता॒व॒केभ्यः॑ । र॒थे॒भ्यः । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

हे अग्ने अध दग्धुं वनप्रवेशानंतरं स्वनात्त्वदीयात्पूर्वोक्तगंभीरशब्दात् । उतशब्दोऽप्यर्थः । पतत्रिणः पक्षिणोऽपि बिभ्युः । बिभ्यति । भयं प्राप्नुवंति । उत्पतनेन देशांतरं गंतुं समर्थाः पक्षिणोऽपि यदा भयं प्राप्नुवंति किमु वक्तव्यमन्येषां तत्रत्यानां वृकादीनां भीतिर्जायत इति । अतस्त्वयि वनं प्रविशति सर्वे प्राणिनो भयं प्राप्नुवंतीत्यर्थः । तादृशस्य ते तव द्रप्सा ज्वालैकदेशा यवसादो यवसानामरण्ये वर्तमानानां तृणानामत्तारः संतो यद्यदा व्यस्थिरन् विविधमवतिष्ठंते तत्तदा ते तव सर्वमरण्यं सुगं सुखेन गंतुं शक्यं । अतस्तावकेभ्यस्त्वदीयेभ्यो रथेभ्यश्च तदरण्यं सुगं भवति । पूर्वं प्रवृत्तैर्ज्वालाग्रैस्तृणादिषु दग्धेषु सत्सु त्वदीया रथाः प्रतिबंधमंतरेण पश्चाद्गच्छंतीति भावः । अन्यत्समानं ॥ बिभ्युः । ञिभी भये । छांदसो लिट् । एरनेकाच इति यण् । व्यस्थिरन् । समवप्रविभ्य इति तिष्ठतेरात्मनेपदं । लुङि व्यत्ययेन झस्यरन् । स्थाघ्वोरिच्चेतीत्वं । ह्रस्वादंगात् । पा ८-२-२७ । इति सलोपः । तावकेभ्यः । तवकममकावेकवचने । पा सू ४-३-३ । इति युष्मदस्तवकादेशः ॥ ११ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२