मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९४, ऋक् १२

संहिता

अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः ।
मृ॒ळा सु नो॒ भूत्वे॑षां॒ मन॒ः पुन॒रग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

पदपाठः

अ॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाय॑से । अ॒व॒ऽया॒ताम् । म॒रुता॑म् । हेळः॑ । अद्भु॑तः ।
मृ॒ळ । सु । नः॒ । भूतु॑ । ए॒षा॒म् । मनः॑ । पुनः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥

सायणभाष्यम्

अयमग्नेः स्तोता मित्रस्याहरभिमानिनो देवस्य वरुणस्य रात्र्याभिमानिनश्च संबंधिने धायसे धारणायावस्थापनाय भवतु । मित्रावरुणाविममग्नेः स्तोतारं धारयितामित्यर्थः । अवयातामवस्ताद्गच्छतां स्वर्गलोकस्याधस्तादंतरिक्षे वर्तमानानां मरुतामेतत्संज्ञानां देवानां हेळः क्रोधोऽद्भुतो महान्भवति । अद्भुत इत्येतन्महन्नाम । तस्मात्क्रोधादिममग्नेः स्तोतारं मित्रावरुणौ रक्षतामिति शेषः । अपि च नोऽस्मान् हे अग्ने सु मृळ । सुष्ठु मृडय । सुखय । एषां मरुतां । मनश्च पुनर्भूतु । पुनरपि प्रसन्नं भवतु । अन्यत्समानं ॥ धायसे । वहिहाधाञ्भ्यश्चंदसीति भावेऽसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरितियुक् । अवयातां । या प्रापणे । अस्मादवपूर्वाल्लटः शतृ । शतुरनुम इति विभक्तेरुदात्तत्वं । मृळ । मृड सुखने । छंदस्युभयथेति शप अर्धधातुकत्वाण्णेरनिटीति णिलोपः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वं । भूतु । बहुलं छंदसीति शपो लुक् ॥ १२ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२