मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९५, ऋक् १

संहिता

द्वे विरू॑पे चरत॒ः स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते ।
हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चा॑ः ॥

पदपाठः

द्वे इति॑ । विरू॑पे॒ इति॒ विऽरू॑पे । च॒र॒तः॒ । स्वर्थे॒ इति॑ सु॒ऽअर्थे॑ । अ॒न्याऽअ॑न्या । व॒त्सम् । उप॑ । धा॒प॒ये॒ते॒ इति॑ ।
हरिः॑ । अ॒न्यस्या॑म् । भव॑ति । स्व॒धाऽवा॑न् । शु॒क्रः । अ॒न्यस्या॑म् । द॒दृ॒शे॒ । सु॒ऽवर्चाः॑ ॥

सायणभाष्यम्

स्वर्थे स्वरणे शोभनगमनागमने । यद्वा । अर्थः प्रयोजनम् । शोभनप्रयोजनोपेते विरूपे विषमरूपे शुक्लकृष्णतया नानारूपे द्वे अहोरात्रे चरतः । पुनःपुनः पर्यावर्तेते । ते चाहोरात्रे अग्नेः सूर्यस्य च जनन्यौ । तत्र रात्रेः पुत्रः सूर्यः । स हि गर्भवद्रात्रावंतर्हितः सन् तस्याश्चरमभागादुत्पद्यते । अह्नः पुत्रोऽग्निः । स हि तत्र विद्यमानोऽपि प्रकाशराहित्येनासत्कल्पः सन् तस्मादह्नः सकाशान्निर्मुक्तः प्रकाशमानं स्वात्मानं लभते । अनयोरेतयोः पुत्रत्वं च तैत्तिरीयैराम्नायते । तयोरेतौ वत्सौ । अग्निश्चादित्यश्च । रात्रेर्वत्सः । श्वेत आदित्यः । अह्नोऽग्निः । ताम्रो अरुण इति । ते चाहोरात्रे वत्सं स्वं स्वं पुत्र मन्यान्या परस्परव्यतिहारेणोप धापयेते । स्वकीयं रसं पाययतः । यद्रात्र्या कर्तव्यं स्वपुत्रस्यादित्यस्य रसस्य पायनं तदहः करोति । यदह्ना कर्तव्यं स्वपुत्रस्याग्ने रसस्य पायनं तद्रात्रिः करोति । एतच्च सायंप्रातःकालीनाहुत्यभिप्रायम् । श्रूयते च । तस्मा अग्नये सायं हूयते । सूर्याय प्रातरिति । यस्मादेवम् । तस्मादन्यस्यां स्वजनन्या अन्यस्यामहरात्मिकायामग्नेर्जनन्यां हरी रसहरणशील आदित्यः स्वधावान् हविर्लक्षणान्नवान्भवति । शुक्रो निर्मलदीप्तिरग्निः स्वजनन्यां अन्यस्यां रात्र्यामादित्यस्य जनन्यां सुवर्चाः शोभनदीप्तियुक्तः सन्धदृशे । दृश्यते ॥ स्वर्थे । ऋ गतौ । उषिकुषिगार्तिभ्यस्थन्निति भावे कर्मणि वा थन्प्रत्ययः नित्त्वादाद्युदात्तत्वम् । शोभनोऽर्थो ययोस्ते । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । अन्यान्या । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यम् । समासवच्च बहुलम् । म ८-१-१२-११ । इति द्विर्भावः । बहुलग्रहणात्समासवद्भावाभावे तस्य परमाम्रेडितमिति परस्याम्रेडितसंज्ञायामनुदात्तं चेत्याम्रेडितानुदात्तत्वम् । धापयेते । धेट् पाने । आदेच इत्यात्वम् । ततो हेतुमति णिच् । अर्तिह्रीत्यादिना (पा ७-३-३६) धातोः पुगागमः । तत्र हि लक्षणप्रतिपदोक्तपरिभाषा नास्तीति ज्ञापितं शाछासाह्वाव्येति कृतत्वानां निर्देशेन । स हि युक् प्राप्तिख्यापनार्थः । यदि तत्र लक्षणप्रतिपदोक्तपरिभाषया पुग्न प्राप्नोति सोऽनर्थकः स्यात् । तस्मादध्यापयतीत्यादाविव धापयेते इत्यत्रापि पुगागमः सिद्धः । निगरणचलनार्थेभ्यश्च । पा सू १-३-८७ । इति प्राप्तस्य परस्मैपदस्य पादिषु धेट उपसंख्यानम् । पा १-३-८९-१ । इति प्रतिषेधादात्मनेपदम् । हरिः । हृञ् हरणे । औणादिक इन्प्रत्ययः । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । भवति । एकान्याभ्यां समर्थाभ्याम् (पा ८-१-६५) इति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । ददृशे । दृशेश्छंदसि लङ् लुङ् लिट इति वर्तमाने लिट् । सुवर्चाः । शोभनं वर्चस्तेचो यस्य । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वं ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः