मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९५, ऋक् ८

संहिता

त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स॑म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः ।
क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥

पदपाठः

त्वे॒षम् । रू॒पम् । कृ॒णु॒ते॒ । उत्ऽत॑रम् । यत् । स॒म्ऽपृ॒ञ्चा॒नः । सद॑ने । गोभिः॑ । अ॒त्ऽभिः ।
क॒विः । बु॒ध्नम् । परि॑ । म॒र्मृ॒ज्य॒ते॒ । धीः । सा । दे॒वऽता॑ता । सम्ऽइ॑तिः । ब॒भू॒व॒ ॥

सायणभाष्यम्

सदनेऽंतरिक्षे गोभिर्गंत्रीभिरद्भिर्मेघस्थाभिः सह संपृंचानो वैद्युतरूपेण संयुक्तः सन् त्वेषं दीप्तं सर्वैर्द्रष्टुमशक्यमुत्तरमुत्कृष्टतरं रूपं वैद्युतं प्रकाशं यद्यदा कृणुते करोति । तदानीं कविः क्रांतदर्शी धीः सर्वेषां धारकः सोऽग्निर्बुध्नं सर्वस्योदकस्य मूलभूतमंतरिक्षं परि मर्मृज्यते । परितो मार्ष्वि स्वतेजसाच्छादयति । तस्याग्नेः सा देवताता देवेन देवनशीलेनाग्निना तता विस्तारिता दीप्तिरस्माभिः स्तुता सती समितिर्बभूव । तेजसां संहतिर्भवति ॥ संपृंचानः । पृची संपर्के । रौधादिकः । अस्माल्लटः शानच् । श्नसोरल्लोप इत्यकारलोपः । सीदंत्यस्मिन् गंधर्वादय इति सदनमंतरिक्षम् । अधिकरणे ल्युट् । मर्मृज्यते । मृजूष् शुद्धौ । अस्माद्यङि मर्मृज्यते मर्मृज्यमानास इति चोपसंख्यानम् । पा ७-४-९१-१ । इति निपातनादभ्यासस्य रुगागमः । देवताता । देवेन तता देवताता । तनोतेः कर्मणि निष्ठा । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । व्यत्ययेनात्वम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः