मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९७, ऋक् १

संहिता

अप॑ न॒ः शोशु॑चद॒घमग्ने॑ शुशु॒ग्ध्या र॒यिम् ।
अप॑ न॒ः शोशु॑चद॒घम् ॥

पदपाठः

अप॑ । नः॒ । शोशु॑चत् । अ॒घम् । अग्ने॑ । शु॒शु॒ग्धि । आ । र॒यिम् ।
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥

सायणभाष्यम्

अप न इत्यष्वर्चं चतुर्थं सूक्तं कुत्सस्यार्षं गायत्रं । शुचिगुणकोऽग्निः शुद्धोऽग्निर्वा देवता । तथा चानुक्रांतं । अप नोऽष्टौ शुचये गायत्रमिति ॥ विनियोगो लैंगिकः ॥ अत्रेदमाख्यानं । दीर्घजिह्वी नाम राक्षसी सर्वान्यज्ञान्बबाधे । तां हंतुमिंद्रोऽशक्तः सन् सर्वस्य मित्रभूतं कुत्समब्रवीदेषा त्वया हंतव्येति । स चावधीत् । तं वागभ्यवदत् अनुचितमिदं त्वया चरितं यत्त्वं सर्वेषां मित्रभूतः सन् क्रूरमकार्षीरिति । तमृषिं शोकः प्राप्नोत् । स ऋषिरनेन सूक्तेनाग्निं स्तुत्वा शोकमपागमयत् । तथा च तांडकं । दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञानवलिहत्यचरत् तामिंद्रः कया चन मायया हंतुं नाशंसत् अथ ह सुमित्रः कुत्सः कल्याण आस । तमब्रवीदित्यादि । तां १३-६-९ । तस्मादेतत्सूक्तं शुगपनयनाय विनियोज्यं । अत एव हि सूत्रकारेण भारद्वाजेन दशमेऽहनि कर्तव्ये शांतिकर्मणि यजुर्वेदे पठितमेतत्सूक्तं विनियुज्यते । नव च स्रुवाहुतीरप नः शोशुचदघमिति ॥

हे अग्ने नोऽस्माकमघं पापमप शोशुचत् । अस्मत्तो निर्गत्यास्मदीयं शत्रुं शोचयतु । यद्वा । अस्मदीयं पापं शोशुचत् । शोकग्रस्तं सद्विनश्यतु । अपि चास्माकं रयिं धनमा समंताच्छुशुग्धि । प्रकाशय । उक्तार्थमपि वाक्यमादरातिशयद्योतनाय पुनः पठ्यते । अवश्यमस्माकमघं विनश्यत्विति ॥ शोशुचत् । शुचशोके । अस्माद्यङ् लुगंताल्लेट्यडागमः । अदादिवच्चेति वचनाच्छपो लुक् । आभ्यस्तानामादिरित्याद्युदात्तत्वं । अघं शोशुचच्च रयिं शुशुग्धि चेति चार्थप्रतीतेश्चादिलोपे विभाषेति निघातप्रतिषेधः । शुशुग्धि । शुच दीप्तौ । लोट बहुलं छंदसीति शपः श्लुः । हुझल्भ्यो हेर्धिः । चोः कुरिति कुत्वं ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः