मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् २

संहिता

यस्याना॑प्त॒ः सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ ।
वृष॑न्तम॒ः सखि॑भि॒ः स्वेभि॒रेवै॑र्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

यस्य॑ । अना॑प्तः । सूर्य॑स्यऽइव । यामः॑ । भरे॑ऽभरे । वृ॒त्र॒ऽहा । शुष्मः॑ । अस्ति॑ ।
वृष॑न्ऽतमः । सखि॑ऽभिः । स्वेभिः॑ । एवैः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

यस्येंद्रस्य यामो गतिरनाप्तः परैरप्राप्ता सूर्यस्येव । यथा सूर्यस्य गतिरन्यैर्न प्राप्तुं शक्यते तद्वत् । स्वेभिरात्मीयैरेवैर्गमनशीलैः सखिभिर्मित्रभूतैर्मरुद्भिः सह वृषंतमोऽतिशयेन कामानां वर्षिता । भरे भरे सर्वेषु संग्रामेषु वृत्रहा शत्रूणां हंता शुष्मः सर्वेषामसुराणां शोषकः । एवंभूतो य इंद्रोऽस्ति विद्यते स मरुत्वानिंद्रो नोऽस्माकं रक्षणाय भवतु ॥ यामः । या प्रापणे । अर्तिस्तुस्वित्यादिना भावे मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । शुष्मः । शुष शोषणे अविसिविसिशुषिभ्यः कित् (उ १-१४३) इति मन् प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अस्ति । यद्वृत्तयोगादनिघातः । वृषंतमः । वृषञ्शतब्दादुत्तरस्य तमपो नाद्घस्य (पा ८-२-१७) इति नुट् । एवैः । इण् गतौ । इण् शीङ् भ्यां वन् ॥ २ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः