मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् ४

संहिता

सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द्वृषा॒ वृष॑भि॒ः सखि॑भि॒ः सखा॒ सन् ।
ऋ॒ग्मिभि॑रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

सः । अङ्गि॑रःऽभिः । अङ्गि॑रःऽतमः । भू॒त् । वृषा॑ । वृष॑ऽभिः । सखि॑ऽभिः । सखा॑ । सन् ।
ऋ॒ग्मिऽभिः॑ । ऋ॒ग्मी । गा॒तुऽभिः॑ । ज्येष्ठः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

स इंद्रोऽंगिरोभिः । अंगंति गच्छंतीत्यंगिरसो गंतारः । तेभ्योऽप्यंगिरस्तमोऽभूत् । अतिशयेन गंता भवति । वृषभिर्वृषा वर्षितृभ्योऽप्यतिशयेन वर्षिता सखिभिः समानख्यानेभ्यो मित्रभूतेभ्योऽपि सखातिऽशयेन हितकारी एवंभूतः सन् ऋग्मिभिरर्चनीयेभ्योऽपि ऋग्म्यर्चनीयो भवति गातुभिर्गातव्येभ्यः स्तोतव्येभ्योऽपि ज्येष्ठोऽतिशयेन स्तोतव्यः एवंगुणविशिष्टो मरुत्वानिंद्रो रक्षणाय भवतु ॥ अंगिरोभिः । अगि रगि लगि गत्यर्थाः । अंगिरा अप्सराः । उ उ ४-२३५, २३६ । इत्यौणादिकोऽसुन्प्रत्ययो निपात्यते । इदमादिषु सर्वत्र पंचम्यर्थे तृतीया । ऋग्मिभिः । ऋच स्तुतौ । संपदादिलक्षणो भावे क्विप् । मत्वर्थीयो मिनिः । पदत्वात्कुत्वं जश्त्वं च । गातुभिः । गा स्तुतौ । कमिमनिजनीत्यादिना कर्मणि तुप्रत्ययः ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः