मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् १०

संहिता

स ग्रामे॑भि॒ः सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१॒॑द्य ।
स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

पदपाठः

सः । ग्रामे॑भिः । सनि॑ता । सः । रथे॑भिः । वि॒दे । विश्वा॑भिः । कृ॒ष्टिऽभिः॑ । नु । अ॒द्य ।
सः । पौंस्ये॑भिः । अ॒भि॒ऽभूः । अश॑स्तीः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

सायणभाष्यम्

स इंद्रो ग्रामेभिर्मरत्संघैः सह सनिता फलानां प्रदाता भवति । स चाद्यास्मिन्नहनि नु क्षिप्रं विश्वाभिः कृष्विभिः सर्वैर्मनुष्यै रथेभिरिंद्रसंबंधिभीः रथैः कारणभूतैर्विदे । विज्ञायते । अपि च स इंद्रः पौंस्येभिः स्वकीयैर्बलैरशस्तीरशंसनीयान् शत्रूनभिभूः । अभिभवन्वर्तते । मरुत्वान्स इंद्रो नोऽस्माकं रक्षणाय भवतु ॥ ग्रामेभिः । बहुलं छंदसीति भिस ऐसभावः । ग्रामादीनां च (फि २-१५) इत्याद्युदात्तत्वम् । विदे । विद ज्ञाने । कर्मणि लट् । बहुलं छंदसीति विकरणस्य लुक् । लोपस्त आत्मनेपदेष्विति तलोपः ॥ १० ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः