मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १००, ऋक् १७

संहिता

ए॒तत्त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णन्ति॒ राधः॑ ।
ऋ॒ज्राश्व॒ः प्रष्टि॑भिरम्ब॒रीषः॑ स॒हदे॑वो॒ भय॑मानः सु॒राधा॑ः ॥

पदपाठः

ए॒तत् । त्यत् । ते॒ । इ॒न्द्र॒ । वृष्णे॑ । उ॒क्थम् । वा॒र्षा॒गि॒राः । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ ।
ऋ॒ज्रऽअ॑श्वः । प्रष्टि॑ऽभिः । अ॒म्ब॒रीषः॑ । स॒हऽदे॑वः । भय॑मानः । सु॒ऽराधाः॑ ॥

सायणभाष्यम्

हे इंद्र वृष्णे कामानां वर्षितुस्ते तव त्यत्तदेतदुक्थं स्तोत्रं राधः संराधकं त्वत्प्रीतिहेतु वार्षागिरा वृषागिरो राज्ञः पुत्रा ऋज्राश्वादयोऽभि गृणंति । अभिमुख्येन वदंति । वार्षागिरा इत्येतद्विवृणोति । ऋज्राश्व एतत्संज्ञो राजर्षिः प्रष्टिभिः पार्श्वस्थैरन्यैर्ऋषिभिः सहेंद्रमस्तौत् । के ते पार्श्वस्थाः । अंबरीषादयश्च त्वारो राजर्षयः ॥ वार्षागिराः । तस्यापत्यम् (पा ४-१-९२) इत्यण्प्रत्ययः । गृणंति । गृ शब्दे । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । राधः । राध साध संसिद्धौ । राध्नोति समृद्धो भवत्यनेनेति राधः । करणेऽसुन् । ऋज्राश्च । ऋज्रा गतिमंतोऽश्वा यस्य स तथोक्तः । अंबरीषः । अभि शब्जे । औणादिक ईषन्प्रत्ययः उ ४-२९ । सहदेवः । देवैः सह वर्तत इति सहदेवः । वोपसर्जनस्येति विकल्पनात्सभावाभावः । भयमानः । ञिभी भये । अस्मादंतर्भावितण्यर्थाद्व्यत्ययेन शानच् । बहुलं छंदसीति शपः श्लोरभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । सुराधाः । राध इति धननाम । शोभनं राधो यस्य । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वं ॥ १७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११