मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०१, ऋक् १

संहिता

प्र म॒न्दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना ।
अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥

पदपाठः

प्र । म॒न्दिने॑ । पि॒तु॒ऽमत् । अ॒र्च॒त॒ । वचः॑ । यः । कृ॒ष्णऽग॑र्भाः । निः॒ऽअह॑न् । ऋ॒जिश्व॑ना ।
अ॒व॒स्यवः॑ । वृष॑णम् । वज्र॑ऽदक्षिणम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

प्र मंदिन इत्येकादशर्चमष्टमं सूक्तमांगिरसस्य कुत्सस्यार्षम् । अष्टम्याद्याश्चतस्रस्त्रिष्टुभः शिष्टाः सप्त जगत्यः । इंद्रो देवता । तथा चानुक्रांतम् । प्र मंदिन एकादश कुत्सश्चतुस्त्रिष्टुबंतमाद्या गर्भस्राविण्युपनिषत् ॥ दशरात्रस्य नवमेऽहनि मरुत्वतीय एतत्सूक्तम् । विश्वजित इति खंडे सूत्रितम् । प्र मंदिन इमा उ त्वेति मरुत्वतीयम् (आ ८-७) इति ।

हे ऋत्विजो । मंदिने स्तुतिमते स्तोतव्यायेंद्राय पितुमद्धविर्लक्षणेनान्नेनोपेतं वचः स्तुतिलक्षणं वचनं प्रार्चत । प्रकर्षेणोच्चारयत । य इंद्र ऋजिश्वनैतत्संज्ञकेन राज्ञा सख्या सहितः सन् कृष्णगर्भाः । कृष्णो नाम कश्चिदसुरः । तेन निषिक्तगर्भास्तदीया भार्या निरहन् । अवधीत् । कृष्णमसुरं हत्वा पुत्राणामप्यनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्या अप्यवधीदित्यर्थः । अवस्यवो रक्षणेच्छवो वयं व्कृषणं कामानां वर्षितारं वज्रदक्षिणं वज्रयुक्तेन दक्षिणहस्तेनोपेतं तं मरुत्वंतमिंद्र सख्याय सख्युः कर्मणे हवामहे । आह्वयामहे ॥ मंदिने । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । औणादिक इनिप्रत्ययः । तदुक्तं यास्केन । मंदी मंदतेः स्तुतिकर्मणः (नि ४-२४) इति । पितुमत् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । कृष्ण गर्भाः । कृष्णेन निषिक्ता गर्भा यासु तास्तथोक्ताः । परादिश्छंदसि बहुलमिति पूर्वपदांतोदात्तत्वम् । अवस्यवः । अवेरौणादिको भावेऽसुन् । अव इच्छत्यवस्यति । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । वृषणम् । वा षपूर्वस्य निगम इति विकल्पनादुपधादीर्घाभावः । सख्याय । सख्युः कर्म सख्यम् । सख्युर्य इति यप्रत्ययः । हवामहे । ह्वेञो लट बहुलं छंदसीति संप्रसारणं ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२