मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०१, ऋक् ८

संहिता

यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से ।
अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥

पदपाठः

यत् । वा॒ । म॒रु॒त्वः॒ । प॒र॒मे । स॒धऽस्थे॑ । यत् । वा॒ । अ॒व॒मे । वृ॒जने॑ । मा॒दया॑से ।
अतः॑ । आ । या॒हि॒ । अ॒ध्व॒रम् । नः॒ । अच्छ॑ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । स॒त्य॒ऽरा॒धः॒ ॥

सायणभाष्यम्

हे मरुत्वो मरुद्भिर्युक्तेंद्र परम उत्कृष्टे सधस्थे सहस्थाने गृहे यद्वा यदि वा मादयासे तृप्तो वर्तसे । यद्वा यदि वावमेऽर्वाचीने वृजने । वृज्यते रिक्तीक्रियतेऽस्मिन्धनमिति वृजनं गृहम् । तस्मिन्मादयासे । अतोऽस्मादुभयविधात्स्थानान्नोऽस्माकमध्वरं यज्ञमच्छाभिमुख्येना याहि । आगच्छ । हे सत्यराधः सत्यधन त्वाया त्वत्कामनया वयं हविश्च कृम । कृतवंतः ॥ मरुत्वः । मतुवसो रुरिति संबुद्धौ नकारस्य रुत्वम् । सधस्थे । सुपि स्थ इति कप्रत्ययः । सध मादस्थयोश्छंदसीति सहस्य सधादेशः । मादयासे । मद तृप्तियोगे । चुरादिरात्मनेपदी । लेट्याडागमः । त्वाया । त्वामात्मन इच्छति । सुप आत्मनः क्यच् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । व्यत्ययेन दकारस्यात्वम् । अ प्रत्ययादित्यकारप्रत्ययः । सुपां सुलुगिति तृतीयाया लुक् ॥ ८ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३