मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०२, ऋक् २

संहिता

अ॒स्य श्रवो॑ न॒द्य॑ः स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपु॑ः ।
अ॒स्मे सू॑र्याचन्द्र॒मसा॑भि॒चक्षे॑ श्र॒द्धे कमि॑न्द्र चरतो वितर्तु॒रम् ॥

पदपाठः

अ॒स्य । श्रवः॑ । न॒द्यः॑ । स॒प्त । बि॒भ्र॒ति॒ । द्यावा॒क्षामा॑ । पृ॒थि॒वी । द॒र्श॒तम् । वपुः॑ ।
अ॒स्मे इति॑ । सू॒र्या॒च॒न्द्र॒मसा॑ । अ॒भि॒ऽचक्षे॑ । श्र॒द्धे । कम् । इ॒न्द्र॒ । च॒र॒तः॒ । वि॒ऽत॒र्तु॒रम् ॥

सायणभाष्यम्

अस्येंद्रस्य श्रवो यशः कीर्तिं सप्त इमं मे गंग इत्यस्यामृचि प्राधान्येन प्रतिपादिता गंगाद्याः सप्तसंख्याका नद्यो बिभ्रति । धारयंति । वृत्रिहननेनेंद्रस्य यद्वृष्टेः प्रदातृत्वम् । तत्प्रभूतजलोपेता नद्यः प्रकटयंतीत्यर्थः । अपि च द्यावाक्षामा द्यावापृथिव्यौ । पृथिवीत्यंतरिक्षनाम । अंतरिक्षं चास्य सूर्यात्मनावर्तमानस्येंद्रस्य दर्शतं सर्वैः प्राणिभिर्दर्शनीयं वपुः । रूपनामैतत् । प्रकाशात्मकं रूपं धारयंति । किंच हे इंद्र अस्मे अस्माकमभिचक्षे द्रष्टव्यानां पदार्थानामाभिमुख्येन प्रकाशनार्थं श्रद्धे कं श्रद्धार्थम् । चक्षुषा दृष्टे हि वस्तुनीदं सत्यमिति श्रद्धोत्पद्यते । कमित्येतत्पादपूरणम् । तदुभयार्थं सूर्याचंद्रमसौ वितर्तुरं परस्परव्यतिहारेण तरणं पुनःपुनर्गमनं यथा भवति तथा चरतः । वर्तेते । त्वमेव तद्रूपः सन्वर्तस इत्यर्थः ॥ अस्य । ऊडिदमिति विभक्तेरुदात्तत्वम् । द्यावाक्षामा । द्यौश्च क्षामा च । दिवो द्यावेति द्यावादेशः । सुपां सुलुगिति विभक्तेर्डादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । दर्शतम् । भृमृदृशीत्यादिनातच् । सूर्याचंद्रमसा । सूर्यश्च चंद्रमाश्च । देवताद्वंद्वे चेति पूर्वपदस्यानङादेशः । सुपां सुलुगिति विभक्तेराकारः । चंद्रमस् शब्दोदासीभारादित्वात्पूर्वपदप्रकृतिस्वरेण मध्योदात्तः । अतो देवताद्वंद्वे चेति प्राप्तस्योभयपदप्रकृतिस्वरस्य नोत्तरपदेऽनुदात्तादावपृथिवीति प्रतिषेधः । अभिचक्षे । चक्षेः प्रकाशनार्थात्संपदादिलक्षणो भावे क्विप् । तादर्थ्ये चतुर्थी । श्रद्धे । दृशिग्रहणाद्दधातेर्भावे विच् । चतुर्थ्येकवचन आतो धातोरित्याकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वितर्तुरम् । तरतेर्यङ् लुगंतादौणादिकः कुरुच् । बहुलं छंदसीत्युत्वं ॥ २ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४