मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०२, ऋक् ६

संहिता

गो॒जिता॑ बा॒हू अमि॑तक्रतुः सि॒मः कर्म॑न्कर्मञ्छ॒तमू॑तिः खजंक॒रः ।
अ॒क॒ल्प इन्द्र॑ः प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यन्ते सिषा॒सवः॑ ॥

पदपाठः

गो॒ऽजिता॑ । बा॒हू इति॑ । अमि॑तऽक्रतुः । सि॒मः । कर्म॑न्ऽकर्मन् । श॒तम्ऽऊ॑तिः । ख॒ज॒म्ऽक॒रः ।
अ॒क॒ल्पः । इन्द्रः॑ । प्र॒ति॒ऽमान॑म् । ओज॑सा । अथ॑ । जनाः॑ । वि । ह्व॒य॒न्ते॒ । सि॒सा॒सवः॑ ॥

सायणभाष्यम्

हे इंद्र तव बाहू हस्तौ गोजिता जयेन गवां लंभयितारौ । त्वं चामितक्रतुरपरिच्छिन्नज्ञानः सिमः श्रेष्ठः । तथा च शाट्यायनकम् । सिम इति वै श्रेष्ठमाचक्षत इति । यद्वा । सिदुः शत्रूणां बंधकः । कर्मन्कर्मन् स्तोत ॄणां कर्मणि कर्मण्युपस्थिते शतमूतिर्बहुविधरक्षणोपेतः खजंकरः । खजति मथ्नाति पुरुषानिति खजः संग्रामः । तस्य कर्ता । अकल्पः कल्पेनान्येन रहितः । स्वतंत्र इत्यर्थः । ओजसा सर्वेषां प्राणिनां यदोजो बलमस्ति तेन सर्वेण प्रतिमानं प्रतिनिधित्वेन मीयमानः । यस्मादेवंगुणविशिष्ट इंद्रोऽथातः । कारणात्सिषासवो धनं लब्धुकामा जना विह्वयंते । विविधमाह्वयंति ॥ गोजिता । गा जयत इति गोजितौ । सुपां सुलुगिति विभक्तेराकारः । सिमः । षिञ् बंधने । अस्मादौणादिकोमक् । खजंकरः खज । मंथे । पचाद्यच् । क्षेमप्रियमद्रेऽण् च (पा ३-२-४४) इति चशब्दस्यानुक्तसमुच्चयार्थत्वात् खजशब्दोपपदादपि करोतेः खच् । अरुर्द्विषदजंतस्येति मुम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अकल्पः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सिषासवः । वन षण संभक्तौ । सनि सनीवंतर्धेति विकल्पनादिडभावः । जनसनखनां सन्झलोरित्यात्वम् । द्विर्वचनादि । सनाशंसभिक्ष उः (पा ३-२-१६८) इत्युप्रत्ययः । सति शिष्टत्वात्तस्यैव स्वरः शिष्यते ॥ ६ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५