मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०२, ऋक् ७

संहिता

उत्ते॑ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा॑द्रिरिचे कृ॒ष्टिषु॒ श्रवः॑ ।
अ॒मा॒त्रं त्वा॑ धि॒षणा॑ तित्विषे म॒ह्यधा॑ वृ॒त्राणि॑ जिघ्नसे पुरंदर ॥

पदपाठः

उत् । ते॒ । श॒तात् । म॒घ॒ऽव॒न् । उत् । च॒ । भूय॑सः । उत् । स॒हस्रा॑त् । रि॒रि॒चे॒ । कृ॒ष्टिषु॑ । श्रवः॑ ।
अ॒मा॒त्रम् । त्वा॒ । धि॒षणा॑ । ति॒त्वि॒षे॒ । म॒ही । अध॑ । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । पु॒र॒म्ऽद॒र॒ ॥

सायणभाष्यम्

हे मघवन् धनवन्निंद्र कृष्टिषु स्तोतृषु मनुष्येषु त्वया दीयमानं श्रवो यदन्नमस्ति तच्छतात् शतसंख्याकाद्धनादुद्रिरिचे । उद्रिक्तमधिकं भवति । अपि च भूयसः शतसंख्याकादपि बहुतराद्धनादुद्रिरिचे । अधिकं भवति । किं बहुना । सहस्रात्सहस्रसंख्याकादप्युद्रिरिचे । त्वया दत्तं तदन्नमक्षयमित्यर्थः । अपि चामात्रं मात्रयेयत्तया रहितं परिगणितुमशक्यैः सर्वैर्गुणैरधिकं त्वां महि महती धिषणास्मदीया स्तुतिलक्षणा वाक् तित्विषे । दीपयति । त्वत्संबंधिनो गुणान्प्रकाशयति । हे पुरंदर शत्रूणां पुरां दारयितरिंद्र अधस्तुत्यनंतरं वृत्राण्यावरकान् । शत्रूञ्जिघ्नसे । हंसि विनाशयसि ॥ रिरिचे । रिचिर् विरेचने । कर्मणि लिट् । तत्विषे । त्विष दीप्तौ । जिघ्नसे । हंतेर्लेट व्यत्ययेनात्मनेपदम् । लेटोऽडाटावित्यडागमः । बहुलं छंदसीति शपः श्लुः । गमहनेत्यादिनोपधालोपः । स्थानिवद्भावाद्द्विर्वचनादि । बहुलं छंदसीत्यभ्यासस्येत्वम् । पुरंदर । पूःसर्वयोर्दारिसहोः (पा ३-२-४१) इति खच् । खचि ह्रस्वः (पा ६-४-९४) इति ह्रस्वत्वम् । वाचंयमपुरंदरौ च (पा ६-३-६९) इति निपातनादम् ॥ ७ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५