मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०४, ऋक् ३

संहिता

अव॒ त्मना॑ भरते॒ केत॑वेदा॒ अव॒ त्मना॑ भरते॒ फेन॑मु॒दन् ।
क्षी॒रेण॑ स्नात॒ः कुय॑वस्य॒ योषे॑ ह॒ते ते स्या॑तां प्रव॒णे शिफा॑याः ॥

पदपाठः

अव॑ । त्मना॑ । भ॒र॒ते॒ । केत॑ऽवेदाः । अव॑ । त्मना॑ । भ॒र॒ते॒ । फेन॑म् । उ॒दन् ।
क्षी॒रेण॑ । स्ना॒तः॒ । कुय॑वस्य । योषे॒ इति॑ । ह॒ते इति॑ । ते इति॑ । स्या॒ता॒म् । प्र॒व॒णे । शिफा॑याः ॥

सायणभाष्यम्

केतवेदाऽ केतं ज्ञातं वेदः परेषां धनं येन स शादृशः कुयवनामासुरस्त्मनात्मना स्वयमेवाव भरते । ज्ञातं परेषां धनमपहरति । अपि च सोऽसुर उदन्नुदकेऽंतर्वर्तमानः सन्फेनं फेनयुक्तमुदकमात्मना स्वयमेवाच भरते । अपहरति । क्षीरेण क्षरणशीलेन तेनापहृतेनोदकेन कुयवस्यासुरस्य योषेभार्ये स्नातः । स्नानं कुर्वाते । तादृश्यौ स्त्रियौ शिफायाः । शिफा नाम नदी । तस्याः प्रवणे निम्ने प्रवेष्टुमशक्येऽगाधप्रदेशे हते नष्टे स्याताम् । भवेताम् । हे इंद्र त्वं परेषां धनमपहृत्यान्यैर्दुरवगाह उदकस्य मध्ये वर्तमानं कुयवं सकुटुंबमवधीरित्यर्थः ॥ त्मना । मंत्रेष्टाङ्यादेरात्मन इत्याकारलोपः । भरते हृञ् हरणे । हृग्रहोर्भ इति भत्वम् । केतवेदाः । कित ज्ञाने । कर्मणि घञ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उदन् । पद्दन्नित्यादिनोदकशब्दस्योदन्नादेशः । सुपां सुलुगिति सप्तम्या लुक् ॥ ३ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८