मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११०, ऋक् १

संहिता

त॒तं मे॒ अप॒स्तदु॑ तायते॒ पुन॒ः स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते ।
अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे॑व्य॒ः स्वाहा॑कृतस्य॒ समु॑ तृप्णुत ऋभवः ॥

पदपाठः

त॒तम् । मे॒ । अपः॑ । तत् । ऊं॒ इति॑ । ता॒य॒ते॒ । पुन॒रिति॑ । स्वादि॑ष्ठा । धी॒तिः । उ॒चथा॑य । श॒स्य॒ते॒ ।
अ॒यम् । स॒मु॒द्रः । इ॒ह । वि॒श्वऽदे॑व्यः । स्वाहा॑ऽकृतस्य । सम् । ऊं॒ इति॑ । तृ॒प्णु॒त॒ । ऋ॒भ॒वः॒ ॥

सायणभाष्यम्

हे ऋभवो मे मयापोऽग्निष्टोमादिरूपं कर्म ततम् । विस्तारितम् । बहुशः पूर्वमनुष्ठितम् । तदु तदेव पुनस्तायते । विस्तार्यते अनुष्ठीयत इत्यर्थः तत्र स्वादिष्ठा स्वादुतमातिशयेन प्रीतिकरी धीतिः स्तुतिश्चोचथाय स्तुत्याय शस्यते । पठ्यते । अपि चेहास्मिन्यागे समुद्रः समुंदनशीलोऽयं सोमरसो विश्वदेव्यः सर्वेभ्यो देवेभ्यः पर्याप्तो यथा भवति तथा संपादितः । तस्य स्वाहाकृतस्य स्वाहाकारेणाग्नौ प्रक्षिप्तस्य सोमस्य पानेन समु तृप्णुत । सम्यगेव तृप्ता भवत ॥ ततम् । तनु विस्तारे । निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । अपः । आप्लृव्याप्तौ । आपः कर्माख्यायां ह्रस्वो नुट्च वा (उ ४-२०७) इत्यसुन् धातोर्ह्रस्वश्च । तायते । तनोतेर्यकि (पा ६-४-४४) इत्यात्वम् । स्वादिष्ठा । स्वादुशब्दादातिशायनिक इष्ठन् । टीरिति टलोपः । उचथाय । वच परिभाषणे । औणादिकोऽथक्प्रत्ययः । वचिस्वपीत्यादिना संप्रसारणम् । समुद्रः । उंदी क्लेदने । स्फायितंचेत्यादिना रक् । अनिदितामिति नलोपः । विश्वदेव्यः । देवार्हो भागो देव्यः । छंदसि चेति यप्रत्ययः । विश्वे सर्वे देव्या यस्मिन्सोमे । बहुव्रीहौ विश्वं संज्ञायामिति व्यत्ययेनासंज्ञायामपि पूर्वपदांतोदात्तत्वम् । स्वाहकृतस्य । स्वाहाशब्दस्य ऊर्यादित्वेन गतित्वात् (पा १-४-६१) गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वम् । तृप्णुत । तृप प्रीणने । स्वादिभ्यः श्नुः । ऋभव । इत्यनेन संहितायामृत्यक इति प्रकृतिभावः ॥ १ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०