मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११०, ऋक् २

संहिता

आ॒भो॒गयं॒ प्र यदि॒च्छन्त॒ ऐत॒नापा॑का॒ः प्राञ्चो॒ मम॒ के चि॑दा॒पयः॑ ।
सौध॑न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो॑ गृ॒हम् ॥

पदपाठः

आ॒ऽभो॒गय॑म् । प्र । यत् । इ॒च्छन्तः॑ । ऐत॑न । अपा॑काः । प्राञ्चः॑ । मम॑ । के । चि॒त् । आ॒पयः॑ ।
सौध॑न्वनासः । च॒रि॒तस्य॑ । भू॒मना॑ । अग॑च्छत । स॒वि॒तुः । दा॒शुषः॑ । गृ॒हम् ॥

सायणभाष्यम्

हे ऋभवोऽपाकाः परिपक्वज्ञानाः प्रांचः पूर्वकालीना ममापयः प्रापयितारो मदीया ज्ञातयः के चित् एवंभूता ये केचन यूयमाभोगयमुपभोग्यं सोममिच्छंतो यद्यदा प्रैतन तपश्चरितुमरण्यं गतवंतः । ऋभवो हि सुधन्वन आंगिरसस्य पुत्राः । तदुक्तं यास्केन । ऋभुर्विभ्वा वाज इति सुधन्वन आंगिरसस्य त्रयः पुत्रा बभूवुः । नि ११-१६ । इति । कुत्सोऽप्यांगिरसः । अतस्तेन मदीया ज्ञातय इत्युक्तम् । हे सौधन्वनासः सुधन्वनः पुत्राः । तदानीं चरितस्य समुपार्जितस्य तपसो भूमना भूम्ना बहुत्वेन दाशुषो हवींषि दत्तवतः सवितुः सोमाभिषवं कुर्वतो यजमानस्य संबंधि यज्ञगृहमगच्छत । तपसा लब्धसोमाः संतः कृतपाना यूयं गतंवंतः । यद्वा । दाशुषः प्रातःसवनादिष्टग्न्यादिभिरपसारितेभ्य ऋभुभ्यः सोमपानं दत्तवतः सवितुर्गृहं निवासस्थानं तृतीय सवनाख्यमगच्छत । प्राप्ताः । एतत्सर्वमार्भवं शंसतीत्यादौ । ऐ ब्रा ३-३० । विस्पष्टमाम्नातं ॥ आभोगयं आ समंताद्भोग आभोगः । तदर्ह अभोगयः । छंदसिचेति यः । यस्येति लोपाभावश्छांदसः । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वा । आङ् पूर्वाद्भुजेरौणादिकः कर्मणि इप्रत्ययः कुत्वं च अमि व्यत्ययेन गुणः । ऐतन । इण् गतौ । लङि मध्यमबहुवचनस्य थस्य तादेशः । तप्तनप्तनथनाश्चेति तस्य तनबादेशः । आडागमो वृद्दिश्च । आपयः । आप्नोतेरौणादिक इप्रत्ययः । भूमना । बहुशब्दात्पृथ्वादिलक्षण इमनिच् । बहोर्लोपो भू च बहोरितीकारलोपो बहोर्भूभावश्च । संज्ञापूर्वकस्य विधेरनित्यत्वादलोपाभावः ॥ २ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०