मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११०, ऋक् ३

संहिता

तत्स॑वि॒ता वो॑ऽमृत॒त्वमासु॑व॒दगो॑ह्यं॒ यच्छ्र॒वय॑न्त॒ ऐत॑न ।
त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ सन्त॑मकृणुता॒ चतु॑र्वयम् ॥

पदपाठः

तत् । स॒वि॒ता । वः॒ । अ॒मृ॒त॒ऽत्वम् । आ । अ॒सु॒व॒त् । अगो॑ह्यम् । यत् । श्र॒वय॑न्तः । ऐत॑न ।
त्यम् । चि॒त् । च॒म॒सम् । असु॑रस्य । भक्ष॑णम् । एक॑म् । सन्त॑म् । अ॒कृ॒णु॒त॒ । चतुः॑ऽवयम् ॥

सायणभाष्यम्

हे ऋभवस्तत्तदानीं सविता सर्वस्य प्रेरको देवो वो युष्माकममृतत्वं देवत्वमासुवत् । आभिमुख्येन प्रेरितवान् । दत्तवानित्यर्थः । यद्यदा यूयमगोह्यं गूहितुमशक्यं सर्वैर्दृश्यमानं सवितारं श्रवयंतोऽपेक्षितं सोमपानं विज्ञापयंतः संत ऐतन आगच्छत । तदानीमिति पूर्वेणान्वयः । यस्माद्यूयं देवैराज्ञापिताः संतोऽसुरस्य त्वष्टुः संबंधिनम् । तेन निर्मितमित्यर्थः । भक्षणं सोमपानसाधनं त्यं तं चमसमेकं चित् असहायमेव संतं चतुर्वयं चतुर्व्यूहमकृणुत । कृतवंतः । सृष्ट्यादौ त्वष्ट्राकृतं चमसं होतृचमसादि मुख्यचमस चतुष्टयरूपेण ऋभवः कृतवंत इत्यर्थः ॥ असुवत् । षू प्रेरणे । तौदादिकः । श्रवयंतः । श्रु श्रवणे । छांदसो वृद्ध्यभावः । ऐतन । लङि मध्यमबहुवचनस्य तादेशे तप्तनप्तनथनाश्चेति तनबादेशः । भक्षणम् । करणे ल्युट् । अकृणुत । कृवि हिंसाकरणयोश्च । लङि मध्यमबहुवचने धिन्विकृण्व्योरच्चेत्युप्रत्ययः । चतुर्वयम् । वय अवयवाः । चत्वारोऽवयवा यस्य स तथोक्तः ॥ ३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०