मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११०, ऋक् ४

संहिता

वि॒ष्ट्वी शमी॑ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता॑स॒ः सन्तो॑ अमृत॒त्वमा॑नशुः ।
सौ॒ध॒न्व॒ना ऋ॒भव॒ः सूर॑चक्षसः संवत्स॒रे सम॑पृच्यन्त धी॒तिभि॑ः ॥

पदपाठः

वि॒ष्ट्वी । शमी॑ । त॒र॒णि॒ऽत्वेन॑ । वा॒घतः॑ । मर्ता॑सः । सन्तः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ ।
सौ॒ध॒न्व॒नाः । ऋ॒भवः॑ । सूर॑ऽचक्षसः । सं॒व॒त्स॒रे । सम् । अ॒पृ॒च्य॒न्त॒ । धी॒तिऽभिः॑ ॥

सायणभाष्यम्

वाघतः । ऋत्विङ्नामैतत् । अत्र च सामर्थ्यात्तद्वंतो लक्ष्यंते । ऋत्विग्भिरुपेता ऋभवः शमी । कर्मनामैतत् । यागदानादीनि । कर्माण्यन्यान्यप्येकं चमसं चतुरस्कृणोतन । ऋ १-१६१-२ । इत्यादिना देवैरुक्तानि कर्माणि तरणित्वेन तरणिरिति क्षिप्रनाम । क्षिप्रत्वेन शैघ्र्येण विष्ट्वी । यद्यप्येतत्कर्मनाम तथाप्यत्र क्रियापरं व्याप्य कृत्वेत्यर्थः । एवं कर्माणि कृत्वा मर्तासो मनुष्या अपि संतोऽमृतत्वं देवत्वमानशुः । आनशिरे । कृतैः कर्मभिर्लेभिरे । देवत्वं प्राप्य च सौधन्वनाः सुधन्वनः पुत्राः सूरचक्षसः सूर्यसमानप्रकाशाः सूर्यसदृशज्ञाना वा ते ऋभवः संवत्सरे संवत्सरावयवभूते वसंतादिकालेऽनुष्ठेयैर्धीतिभिरग्निष्टोमादिकर्मभिः समपृच्यंत । संयुक्ता अभवन् । हविर्भागार्हा बभूवुरित्यर्थः । अत्र निरुक्तम् । कृत्वा कर्माणि क्षिप्रत्वेन वोढारो मेधाविनो वा मर्तासः संतोऽमृतत्वमानशिरे सौधन्वना ऋभवः सूरख्याना वा सूरप्रज्ञा वा संवत्सरे समपृच्यंत धीतिभिः कर्मभिर्ऋभुर्विभ्वा वाज इति सुधन्वन आंगिरसस्य त्रयः पुत्रा बभूवुः । नि ११-१६ । इति ॥ विष्ट्वी विष्णृ व्याप्तौ । स्नात्त्व्यादयश्च (पा ७-१-४९) क्त्वाप्रत्ययस्य ईकारांतादेशः । शमी । सुपां सुलुगिति शसो लुक् । आनशुः । अशू व्याप्तौ । व्यत्ययेन परस्मैपदम् । अश्नोतेश्चेत्यभ्यासादुत्तरस्य नुडागमः । अपृच्यंत । पृची संपर्के । कर्मणि लङ् ॥ ४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०