मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११०, ऋक् ५

संहिता

क्षेत्र॑मिव॒ वि म॑मु॒स्तेज॑नेनँ॒ एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानम् ।
उप॑स्तुता उप॒मं नाध॑माना॒ अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा॑नाः ॥

पदपाठः

क्षेत्र॑म्ऽइव । वि । म॒मुः॒ । तेज॑नेन । एक॑म् । पात्र॑म् । ऋ॒भवः॑ । जेह॑मानम् ।
उप॑ऽस्तुताः । उ॒प॒ऽमम् । नाध॑मानाः । अम॑र्त्येषु । श्रवः॑ । इ॒च्छमा॑नाः ॥

सायणभाष्यम्

उपस्तुताः समीपस्थैर्ऋषिभिः स्तुता ऋभवो जेहमानं होमक्रियां प्रति प्रयतमानमेकमसहायं पात्रं पानसाधनं त्वष्ट्रा निर्मितं चमसं मानदंडेन क्षेत्रमिव भूमिमिव तेजनेन तीक्ष्णेन शस्त्रेण चमसचतुष्टयरूपेण कर्तुं वि ममुः । विशेषेण मानं कृतवंतः । किमिच्छंतः । उपमं सर्वेषामुपमानभूतं प्रशस्तं सोमलक्षणमन्नं नाधमाना याचमानाः । एतदेव विवृणोति । अमर्त्येषु मरणरहितेषु देवेषु मध्ये श्रवो हविर्लक्षणमन्नमिच्छमाना इच्छंतः । देवैः सह सोमपानं कामयमानास्तल्लाभाय चतुरश्चमसानकार्षुरित्यर्थः । ममुः । माङ् माने शब्दे च । व्यत्ययेन परस्मैपदम् । तेजनेन । अणोऽप्रगृह्यस्यानुनासिकः (पा ८-४-५७) इत्यनवसाने व्यत्ययेनाकारस्यानुनासिक्यम् । ईषा अक्षादित्वात्प्रकृतिभावः । जेहमानम् । वेहृ जेहृ वाहृ प्रयत्ने । भौवादिकः । अनुदात्तेत्त्वादात्मनेपदम् । उपस्तुताः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । उपमम् । माङ् माने । आतश्चोपसर्ग इति कप्रत्ययः । इच्छमानाः । व्यत्ययेनात्मनेपदं ॥ ५ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०