मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११०, ऋक् ६

संहिता

आ म॑नी॒षाम॒न्तरि॑क्षस्य॒ नृभ्य॑ः स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना॑ ।
त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहन्दि॒वो रजः॑ ॥

पदपाठः

आ । म॒नी॒षाम् । अ॒न्तरि॑क्षस्य । नृऽभ्यः॑ । स्रु॒चाऽइ॑व । घृ॒तम् । जु॒ह॒वा॒म॒ । वि॒द्मना॑ ।
त॒र॒णि॒ऽत्वा । ये । पि॒तुः । अ॒स्य॒ । स॒श्चि॒रे । ऋ॒भवः॑ । वाज॑म् । अ॒रु॒ह॒न् । दि॒वः । रजः॑ ॥

सायणभाष्यम्

अंतरिक्षस्यांतरिक्षलोकस्य मध्यमस्थानस्य संबंधिभ्यो नृभ्यो यज्ञ स्य नेतृभ्य ऋभुभ्यः । ऋभवो हि यज्ञ स्य नेतारः । तेन हि देवत्वं प्राप्ताः । यद्वा । अंतरिक्षस्य लोकस्य नेतृभ्यः । मध्यमे स्थाने ह्येते पठ्यंते । तादृशेभ्यः स्रुचेव यथा स्रुचा जुह्वा घृतं क्षरणशीलाज्योपेतं हविरा जुहवाम । मर्यादायामाकारः । यथाशास्त्रं प्रयच्छाम । एवमेव मनीषां स्तुतिं विद्मना वेदनेन ज्ञानेन कुर्म इति शेषः । अपि च ये ऋभवः पितुः सर्वस्य जगतः पालकस्यास्य सूर्यस्य तरणित्वा तरणित्वानि तरणकौशलानि सश्चिरे सूर्यरश्मिभूताः संतः प्रापुः । तदुक्तं । आदित्यरश्मयोऽप्यृभव उच्यंत इति । ते ऋभवो दिवो रजः । रजःशब्दो लोकवाची । द्योतमानस्य स्वर्गाख्यस्य लोकस्य संबंधिनं वाजं सोमलक्षणमन्नमरुहन् । यागदानादिभिः कर्मभिरन्यैश्च देवोक्तैश्चमसचतुष्टयकरणादिकैः प्राप्नुवन् । स्रुचेव । सावेकाच इति विभक्तेरुदात्तत्वं । जुहवाम । हु दानादनयोः । लोट्याडुत्तमस्य पिच्चेत्याडागमः । विद्मना । विद ज्ञाने । औणादिको मनिः । न संयोगाद्वमंतादित्यल्लोपाभावः । तरणित्वा । तॄ प्लवनतरणयोः । अर्तिसृधृधम्यश्यवितॄभ्योऽनिरिति कर्तर्यनिप्रत्ययः । तस्य भावस्तरणित्वं । शेश्छंदसि बहुलमिति शेर्लोपः । सश्चिरे । ग्जुन्च षस्ज गतावित्यत्र सश्चिमप्येके पठंति । व्यत्ययेनात्मनेपदं । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यमिति वचनाद्द्विर्वचनाभावः । इरेचश्चित्त्वादंतोदात्तत्वं । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । आरुहन् । रुह बीजजन्मनि प्रादुर्भावे च लुङि कृमृदृरुहिभ्यश्चंदसीति च्लेरङादेशः । दिवः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वं । रजः । रंज रागे । रजंत्यस्मिन्निति रजो लोकः । तदुक्तं । लोका रजांस्युच्यंते । नि ४-१९ । इति । औणादिकोऽधिकरणेऽसुन् । रजकरणजनरजस्सूपसंख्यानमिति नलोपः । सुपां सुलुगिति षष्ठ्यालुक् ॥ ६ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१