मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १११, ऋक् २

संहिता

आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वय॒ः क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिष॑म् ।
यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्न॒ः शर्धा॑य धासथा॒ स्वि॑न्द्रि॒यम् ॥

पदपाठः

आ । नः॒ । य॒ज्ञाय॑ । त॒क्ष॒त॒ । ऋ॒भु॒ऽमत् । वयः॑ । क्रत्वे॑ । दक्षा॑य । सु॒ऽप्र॒जाव॑तीम् । इष॑म् ।
यथा॑ । क्षया॑म । सर्व॑ऽवीरया । वि॒शा । तत् । नः॒ । शर्धा॑य । धा॒स॒थ॒ । सु । इ॒न्द्रि॒यम् ॥

सायणभाष्यम्

हे ऋभवो नोऽस्माकं यज्ञाय यज्ञार्थं ऋभुमदुरुभासनयुक्तं वयो हविर्लक्षणमन्नमा तक्षत । आ समंतादुत्पादयत । एतदेव विव्रियते । क्रत्वे क्रतवेऽस्मदीयाय कर्मणे दक्षाय बलाय च । तादर्थ्ये चतुर्थी । एतदुभयार्थं सुप्रजावतीं शोभनाभिः पुत्रपौत्रादिलक्षणाभिः प्रजाभिर्युक्तामिषमन्नमा तक्षतेति शेषः । अपि च सर्ववीरया सर्वैर्वीरैः पुतादिभिरुपेतया विशा प्रजया सह यथा येन प्रकारेण क्षयाम सुखेन निवसाम तत्तादृशमिंद्रियम् । धननामैतत् । धनं नोऽस्मभ्यं शर्धाय बलार्थं सु धासथ । सुष्ठु धत्त । प्रयच्छतेत्यर्थः ॥ ऋभुमत् । उरु भातीति नैरुक्तव्युत्पत्त्या ऋभुशब्दः प्रकाशमात्रवाची । ह्रस्वनुड् भ्यां मतुबिति मतुप उदात्तत्वम् । क्रत्वे । जसादिषु छंदसि वा वचनमिति घेर्ङितीति गुणाभावे यणादेशः । क्षयाम । क्षिनिवासगत्योः । व्यत्ययेन शप् । धासथा । धाञो लेट्यडागमः । सिब्बहुलं लेटीति सिप् । अन्येषामपि दृश्यत इति संहितायां दीर्घत्वं ॥ २ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२