मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १११, ऋक् ३

संहिता

आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः ।
सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणि॑म् ॥

पदपाठः

आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य॑म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा॑य । सा॒तिम् । अर्व॑ते । न॒रः॒ ।
सा॒तिम् । नः॒ । जैत्री॑म् । सम् । म॒हे॒त॒ । वि॒श्वहा॑ । जा॒मिम् । अजा॑मिम् । पृत॑नासु । स॒क्षणि॑म् ॥

सायणभाष्यम्

हे नरो यज्ञस्य नेतार ऋभवः अस्मभ्यमनुष्ठातृभ्यः सातिं संभजनीयमन्नं धनं वा तक्षत । आ समंतात्कुरुत । तथास्मदीयाय रथाय रंहणशीलाय पुत्रादये रथायैव वा सातिं संभजनीयं धनमा तक्षत । तथार्वतेऽश्वाय सातिं संभजनीयमन्नं धनं वाश्वयोग्यमा तक्षतेत्येव । किंच विश्वहा सर्वेष्वहस्सु नोऽस्माकं जैत्रीं जयशीलामपरिमितत्वेन सर्वाधिकां सातिं संभजनीयं धनं सं महेत । सर्वो जनः सम्यक् पूजयतु । वयं च पृतनासु संग्रामेषु जामिं सहजातमजामिं सहानुत्पन्नं शत्रुं वा सक्षणिमस्मानभिभवंतं युष्मत्प्रसादादभिभवेमेति शेषः ॥ सातिम् । ऊतियूतिजूतिसातीत्यादिना क्तिन उदात्तत्वम् । महेत । मह पूजायाम् । सक्षणिम् । षह अभिभवे । औणादिकः सनिप्रत्ययः । ढत्वकत्वषत्वानि ॥ ३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२