मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १११, ऋक् ४

संहिता

ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुत॒ः सोम॑पीतये ।
उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वन्तु सा॒तये॑ धि॒ये जि॒षे ॥

पदपाठः

ऋ॒भु॒क्षण॑म् । इन्द्र॑म् । आ । हु॒वे॒ । ऊ॒तये॑ । ऋ॒भून् । वाजा॑न् । म॒रुतः॑ । सोम॑ऽपीतये ।
उ॒भा । मि॒त्रावरु॑णा । नू॒नम् । अ॒श्विना॑ । ते । नः॒ । हि॒न्व॒न्तु॒ । सा॒तये॑ । धि॒ये । जि॒षे ॥

सायणभाष्यम्

ऋभुक्षणम् । महन्नामैतत् । महांमिंद्रमा हुवे । आह्वयामि । किमर्थम् । ऊतये रक्षणार्थम् । तथा ऋभून्वाजान् । ऋभुर्विभ्वा वाज इति त्रयः सुधन्वनः पुत्राः । तत्र प्रथमोत्तमवाचकशब्दाभ्यां मध्यमोऽपि लक्ष्यते । अतः शब्दद्वयेन त्रयोऽप्युच्यंते । तदुक्तं यास्केन । प्रथमोत्तमाभ्यां बहुवन्निगमा भवंति न मध्यमेन । नि ११-१६ । इति । एवंविधानृभून्मरुतश्च सोमपीतये सोमपानायाह्वयामि । तथोभा युगलरूपेण संहत्य वर्तमानौ द्वौ मित्रावरुणावश्विनौ च नूनमवश्यं सोमपानायाह्वयामीति शेषः । अपि चाहूताश्चेंद्रादयो नोऽस्मान् हिन्वंतु । प्रेरयंतु । गमयंत्वित्यर्थः । किमर्थम् । सातये । संभजनीयाय धनाय धिये धनसाध्याय कर्मणे जिषे जेतुं शत्रूणां जयार्थं च ॥ ऋभुक्षणम् । उरु भासमाने स्थाने क्षियति निवसतीत्यृभुक्षाः । उरुपूर्वाद्भातेर्मृगय्वादयश्च (उ १-३८) इति कुप्रत्ययः । आतो लोप इटि चेत्याकारलोपः पूर्वपदस्य ऋभावश्च । ऋभुशब्दोपपदात् क्षि निवासगत्योरित्यस्मात्पतेस्थ चेति विधीयमान इनिप्रत्ययो बहुलवचनाद्भवति । टिलोपः । इतोऽत्सर्वनामस्थाने (पा ७-१-८६) इत्यत्वमिकारस्य । वा षपूर्वस्य निगम इति विकल्पनादुपधादीर्घाभावः । यद्वा । अर्तेर्भुक्षिनक् । कित्त्वाद्गुणाभावः । अत एव नावगृह्यते । सोमपीतये । पा पाने । स्थागापापचो भाव इति भावे क्तिन् । घुमास्थेतीत्वम् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । हिन्वंतु । हि गतौ वृद्धौ च । अस्मादंतर्भावितण्यर्थाल्लोट स्वादित्वात् श्नुः । जिषे । जि जये । तुमर्थे सेसेनिति क्सेप्रत्ययः ॥ ४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२