मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १११, ऋक् ५

संहिता

ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

ऋ॒भुः । भरा॑य । सम् । शि॒शा॒तु॒ । सा॒तिम् । स॒म॒र्य॒ऽजित् । वाजः॑ । अ॒स्मान् । अ॒वि॒ष्टु॒ ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

ऋभुः प्रथमोऽस्माकं सातिं संभजनीयं धनं भराय संग्रामार्थं सं शिशातु । सम्यक् । तिक्ष्णीकरोतु । संग्रामोचितं धनमस्मभ्यं प्रयच्छत्वित्यर्थः । तथा समर्यजित् । मर्या मनुष्याः । तैः सह वर्तत इति समर्यः संग्रामः । तत्र शत्रूणां जेता वाज एतत्संज्ञस्तृतीयश्चास्मान् स्तोतॄनविष्टु । अवतु । संग्रामाद्रक्षत्वित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं तन्मित्रादयो ममहंताम् । पूजयंतु ॥ शिशातु । शो तनूकरणे । बहुलं छंदसीति विकरणस्य श्लुः । आदेच इत्यात्वम् । द्विर्भावः । ह्रस्वत्वे बहुलं छंदसीत्यभ्यासस्येत्वम् । अविष्टु । अवतेर्लोट सिब्बहुलं लेटीति बहुलग्रहणात्सिप् । इडागमः । षत्वष्टुत्वे ॥ ५ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२