मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् ८

संहिता

याभि॒ः शची॑भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः ।
याभि॒र्वर्ति॑कां ग्रसि॒ताममु॑ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । शची॑भिः । वृ॒ष॒णा॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । चक्ष॑से । एत॑वे । कृ॒थः ।
याभिः॑ । वर्ति॑काम् । ग्र॒सि॒ताम् । अमु॑ञ्चतम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे वृषणा कामानां वर्षितारावश्विनौ याभिः शचीभिः कर्मभिः प्रज्ञाभिर्वापरावृजमेतन्नामकमृषिं पंगुं संतमपंगुमकुरुतम् । तथांधं दृष्टिरहितं संतमृतज्राश्वमृषिं चक्षसे प्रकाशाय सम्यक् चक्षुषा दर्शनाय याभिरूतिभिः प्र कृथः प्रकर्षेण कुरुथः । याभिश्च श्रोणं विगुणजानुकमेव संतमृषिमेतवे गंतुं प्र कृथः । प्रकर्षेण कृतवंतौ । अपि च याभिरूतिभिर्वर्तिकां चटकसदृशस्य पक्षिणः स्त्रियं ग्रसितां वृकेण ग्रस्ताममुंचतम् । वृतास्यान्निर्मुक्तामकुरुतम् । यास्कपक्षे तु वृकेण विवृतज्योतिष्केण सूर्येण याभिर्ग्रस्तां वर्तिकां प्रत्यहमावर्तमानामुषसं तस्मादमोचयतमिति योज्यम् । ताभिः सर्वाभिरूतिभिरस्मानप्यागच्छतं ॥ वृषणा । वृष सेचने । कनिन्युवृषीत्यादिना कनिन् । परावृजम् । वृजी वर्जने । परावृणक्ति तपसा पापं विनाशयतीति परावृक् । क्विप्चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । एतवे । तुमर्थे सेसेनित्येतेस्तवेन्प्रत्ययः । कृथः । डुकृञ् करणे । बहुलं छंदसीति विकरणस्य लुक् ॥ ८ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४