मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् १०

संहिता

याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतम् ।
याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । वि॒श्पला॑म् । ध॒न॒ऽसाम् । अ॒थ॒र्व्य॑म् । स॒हस्र॑ऽमीळ्हे । आ॒जौ । अजि॑न्वतम् ।
याभिः॑ । वश॑म् । अ॒श्व्यम् । प्रे॒णिम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ धनसां धनं संभजमानामथर्व्यमगच्छंतीं छिन्नजंघात्वेन गंतुमसमर्थाम् । थर्वतिर्गतिकर्मा । विश्पलामेतत्संज्ञामगस्त्यपुरोहितस्य खेलस्य संबंधिनीम् । सहस्रमीळ्हे । मीळ्हमिति धननाम । बहुधनोपेत आजौ संग्रामे याभिरूतिभिरजिन्वतम् । गंतुं समर्थामकुरुतम् । एतच्च चरित्रं हि वेरिवाच्छेदि पर्णम् । ऋ १-११६-१५ । इत्यत्र विस्पष्टयिष्यते । याभिश्चाश्व्यमश्वाख्यस्य पुत्रं प्रेणिं स्तुतेः प्रेरयितारं वशमेतत्संज्ञमृषिमावतम् । अरक्षतम् । ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ प्रेणिम् । प्रेणृ गतिप्रेरणश्लेषणेषु । औणादिक इप्रत्ययः ॥ १० ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४