मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् १२

संहिता

याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे ।
याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । र॒साम् । क्षोद॑सा । उ॒द्नः । पि॒पि॒न्वथुः॑ । अ॒न॒श्वम् । याभिः॑ । रथ॑म् । आव॑तम् । जि॒षे ।
याभिः॑ । त्रि॒ऽशोकः॑ । उ॒स्रियाः॑ । उ॒त्ऽआज॑त । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

रसा नदी भवति रसतेः शब्दकर्मण इति यास्कः । नि ११-२५ । हे अश्विनौ याभिरूतिभिर्हेतुभूताभी रसां नदीमनावृष्ट्या जलरहितां क्षोदसा कूलानि संपिंषतोद्न उदकेन पिपिन्वथुः युवां पूरितवंतौ । तथानश्वमश्वैर्विर्युक्तमात्मीयं रथं जिषे जेतुं याभिरूतिभिरावतं अगमयतम् । अपि च याभिरूतिभिः कण्वपुत्रस्त्रिशोक ऋषिरुस्रिया अपहृता गा उदाजत उदगमयत् । असुरसकाशाल्लेभे । ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ क्षोदसा । क्षुदिर् संपेषणे । औणादिकोऽसुन् । उद्नः । तृतीयैकवचनस्य सुपां सुपो भवंतीति । शसादेशः । पद्दन्नित्यादिनोदकशब्दस्योदन् भावः । भसंज्ञायामल्लोपोऽन इत्यकारलोपः । पिपिन्वथुः । पिवि सेचने । इदित्त्वान्नुम् । जिषे । जि जये । तुमर्थे सेसेनिति क्सेप्रत्ययः । उदाजत । अज गतिक्षेपणयोः ॥ १२ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५