मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् १७

संहिता

याभि॒ः पठ॑र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी॑देच्चि॒त इ॒द्धो अज्म॒न्ना ।
याभि॒ः शर्या॑त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । पठ॑र्वा । जठ॑रस्य । म॒ज्मना॑ । अ॒ग्निः । न । अदी॑देत् । चि॒तः । इ॒द्धः । अज्म॑न् । आ ।
याभिः॑ । शर्या॑तम् । अव॑थः । म॒हा॒ऽध॒ने । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ जठरस्य । जठरमुदरं भवति जग्धमस्मिन्ध्रियत इति यास्कः (नि ४-७) जठरोपलक्षितस्य शरीरस्य मज्मना बलेन युक्तः सन् पठर्वैतत्संज्ञो राजर्षिरज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे युष्मदीयाभिर्याभिररूतिभिरा समंताददीदेत् । अदीप्यत । तत्र दृष्टांतः । चितः काष्ठैरभिचित इद्धो यज्ञगृह ऋत्विग्भिः प्रज्वालितोऽग्निर्न । यथाग्निः प्रकाशते तद्वदित्यर्थः । अपि च शर्यातं मानवमिंद्रेण सह स्पर्धमानं महाधने । संग्रामनामैतत् । महता धनेनोपेते संग्रामे याभिरूतिभिरवथः रक्षथः ताभिरित्यादि गतं ॥ अदीदेत् । दीदेतिश्छांदसो दीप्तिकर्मा । अज्मन् । अज गतिक्षेपणयोः । अजंति क्षिपंत्यस्मिन्बाणानित्यधिकरण औणादिको मनिन् । वलादावार्धधातुके विकल्प इष्यते । का २-४-५६-२ । इति वचनाद्वीभावाभावः । सुपां सुलुगिति सप्तम्या लुक् । महाधने । आन्महत इत्यात्वं ॥ १७ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६