मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् १९

संहिता

याभि॒ः पत्नी॑र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतम् ।
याभि॑ः सु॒दास॑ ऊ॒हथु॑ः सुदे॒व्यं१॒॑ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । पत्नीः॑ । वि॒ऽम॒दाय॑ । नि॒ऽऊ॒हथुः॑ । आ । घ॒ । वा॒ । याभिः॑ । अ॒रु॒णीः । अशि॑क्षतम् ।
याभिः॑ । सु॒ऽदासे॑ । ऊ॒हथुः॑ । सु॒ऽदे॒व्य॑म् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ विमदायैतन्नाम्न ऋषये याभिर्युष्मदीयाभिरूतिभिः पत्नीर्भार्याः पुरुमित्रस्य दुहितरं न्यूहथुः । नितरां युवां प्रापितवंतौ । घेति पादपूरणः । तथा याभिरूतिभिररुणीररुणवर्णा आरोचमाना गा आभिमुख्येनाशिक्षतम् । अदत्तम् । तथा पिजनवपुत्राय सुदासे कल्याणदानाय राज्ञे सुदेव्यं प्रशस्तं धनं याभिरूतिभिरूहथुः प्रापितवंतौ । ताभिरित्यादि गतं ॥ पत्नीः । अमो व्यत्ययेन शसादेशः । न्यूहथुः । वह प्रापणे । अथुसि यजादित्वात्संप्रसारणम् । द्विर्वचनादि । सुदासे । शोभनं ददातीति सुदाः । असुन् । सुदेव्यं दिगादित्वाद्यत् (पा ४-३-५४) तित्स्वरित इति स्वरितत्वं ॥ १९ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६