मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् १२

संहिता

या॒व॒यद्द्वे॑षा ऋत॒पा ऋ॑ते॒जाः सु॑म्ना॒वरी॑ सू॒नृता॑ ई॒रय॑न्ती ।
सु॒म॒ङ्ग॒लीर्बिभ्र॑ती दे॒ववी॑तिमि॒हाद्योष॒ः श्रेष्ठ॑तमा॒ व्यु॑च्छ ॥

पदपाठः

य॒व॒यत्ऽद्वे॑षाः । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । सु॒म्न॒ऽवरी॑ । सू॒नृताः॑ । ई॒रय॑न्ती ।
सु॒ऽम॒ङ्ग॒लीः । बिभ्र॑ती । दे॒वऽवी॑तिम् । इ॒ह । अ॒द्य । उ॒षः॒ । श्रेष्ठ॑ऽतमा । वि । उ॒च्छ॒ ॥

सायणभाष्यम्

यावयद्द्वेषाः । यावयंति अस्मत्तः पृथक्कृतानि द्वेषांसि द्वेष्वॄणि राक्षसादीनि यया सा तथोक्ता । न ह्युषसि जातायां राक्षसादयोऽवशिष्ठंते यतस्ते निशाचराः । ऋतपा ऋतस्य सत्यस्य यज्ञस्य वा पालयित्री ऋतेजा यज्ञार्थं प्रादुर्भूता । सत्यामुषस्यहनि यागा अनुष्ठीयंते अतो यज्ञार्थं जातेत्युच्यते । सुम्नावरी । सुम्नमिति सुखनाम । तद्वती सूनृताः । वाङ्नामैतत् । पशुपक्षिमृगादीनां वचांसीरयंती प्रेरयंत्युत्पादयंती सुमंगलीः सौमंगल्योपेता । पत्या कदाचिदपि न वियुक्तेत्यर्थः । देववीतिं देवैः कामयमानं यज्ञं बिभ्रती धारयंती हे उषः श्रेष्ठतमोक्तेन प्रकारेणातिप्रशस्ता त्वमिहास्मिन्देवयजनदेशेऽद्यास्मिन्यागसमये व्युच्छ । विवासय ॥ यावयद्देषाः । यु मिश्रणामिश्रणयोः । अस्माण्ण्यंताल्लटः शतृ । तस्य छंदस्युभयथेत्यार्धधातुकत्वाददुपदेशाल्लसार्वधातुकानुदात्तत्वाभावात्प्रत्ययस्वर एव शिष्यते । पुनर्बहुव्रीहौ स एव स्वरः । छांदसः पदकालीनो ह्रस्वः । ऋतपाः । ऋतं पाति रक्षतीत्यृतपाः । पा रक्षणे । विच् । ऋतेजाः । ऋते निमित्तभूते जायत इत्यृतेजाः । जनी प्रादुर्भावे । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । तत्पुरुषे कृति बहुलमित्यलुक् । सुम्नावरी । छंदसीवनिपाविति मत्वर्थीयो वनिप् । वनो र चेति ङीप् नकारस्य रेफादेशश्च । अन्येषामपि दृश्यत इति दीर्घः । व्यत्ययेन प्रत्ययाद्युदात्तत्वम् । सुमंगलीः । सुमंगलात्संज्ञायाम् (पा ४-१-४१) इति गौरादिषु पाठात् ङीष् । सर्वे विधयश्चंदसि विकल्प्यंत इति हल्ङ्याब्भ्य इति सुलोपस्य विकल्पितत्वादभावे रुत्वविसर्गौ । देववीतिम् । वी गतिप्रजनकांत्यसनखादनेषु । देवैर्वीयते काम्यत इति देववीतिर्यज्ञः । कर्मणि क्तिन् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वं ॥ १२ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः