मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् १३

संहिता

शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑ ।
अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभि॑ः ॥

पदपाठः

शश्व॑त् । पु॒रा । उ॒षाः । वि । उ॒वा॒स॒ । दे॒वी । अथो॒ इति॑ । अ॒द्य । इ॒दम् । वि । आ॒वः॒ । म॒घोनी॑ ।
अथो॒ इति॑ । वि । उ॒च्छा॒त् । उत्ऽत॑रान् । अनु॑ । द्यून् । अ॒जरा॑ । अ॒मृता॑ । च॒र॒ति॒ । स्व॒धाभिः॑ ॥

सायणभाष्यम्

देवी देवनशीलोषाः पुरा पूर्वस्मिन्काले शश्वन्नित्यं संततं व्युवास व्यौच्छत् । अथो अनंतरमद्यास्मिन्काले मघोनी धनवत्युषास्तमसातिरोहितमिदं सर्वं जगद्व्यावः । विवासितं प्रकाशनेन तमसा वियुक्तमकरोत् । अथो अनंतरमुत्तरानूर्द्ध्वतरान्भाविनो द्यून् दिवसाननुलक्ष्यागामिष्टपि दिवसेषु व्युच्छात् व्युच्छति । विवासयति । अतः कालत्रयव्यापिनी सोषा अजरा जरारहिता सर्वदेकरूपामृता मरणरहिता च सती स्वधाभिरात्मीयैस्तेजोभिः सह चरति । वर्तते ॥ उवास । वस निवासे । लिट्यभ्यासस्योभयेषामित्यभ्यासस्य संप्रसारणम् । आवः । तस्मादेव धातोर्लङि बहुलं छंदसीति विकरणस्य लुक् । हल्ङ्याब्भ्य इति तिलोपः । छंदस्यपि दृश्यत इत्याडागमः । उच्चात् । लेट्याडागमः । उत्तरान् । दीर्घादट समानपाद इति नकारस्य रुत्वम् । अतोऽट नित्यमिति सानुनासिक आकारः । अनु । अनुर्लक्षणे (पा १-४-८४) इत्यनोः कर्मप्रवचनीयत्वम् । अजरा अमृता । तत्र बहुर्वीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वं ॥ १३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः