मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् १९

संहिता

मा॒ता दे॒वाना॒मदि॑ते॒रनी॑कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा॑हि ।
प्र॒श॒स्ति॒कृद्ब्रह्म॑णे नो॒ व्यु१॒॑च्छा नो॒ जने॑ जनय विश्ववारे ॥

पदपाठः

मा॒ता । दे॒वाना॑म् । अदि॑तेः । अनी॑कम् । य॒ज्ञस्य॑ । के॒तुः । बृ॒ह॒ती । वि । भा॒हि॒ ।
प्र॒श॒स्ति॒ऽकृत् । ब्रह्म॑णे । नः॒ । वि । उ॒च्छ॒ । आ । नः॒ । जने॑ । ज॒न॒य॒ । वि॒श्व॒ऽवा॒रे॒ ॥

सायणभाष्यम्

हे उषस्त्वं देवानां माता जननी । उषसि सर्वे देवाः स्तुत्या प्रबोध्यंते अतः सा तज्जननवतीत्युच्यते । अत एवादितेर्देवानां मातुरनीकं प्रत्यनीकं प्रतिस्पर्धिनी त्वमित्यर्थः । यद्वा । दीव्यंतीति देवा रश्मयः । तेषां निर्मात्री अदितेरखंडनीयाया भूमेरनीकं मुखम् । यथेंद्रियाश्रयत्वान्मुखं प्रकाशकं एवमुषा भूमेः प्रकाशयत्रीत्यर्थः । यज्ञस्य केतुः केतयित्री ज्ञापयित्री बृहती महती सती वि भाहि । प्रकाशयस्व । अपि च प्रशस्ति कृत् सम्यक् स्तुतमिति प्रशंसनं कुर्वती नोऽस्मदीयाय ब्रह्मणे मंत्ररूपाय स्तोत्राय व्युच्छ । विवासय । तदनंतरं हे विश्वॆवारे सर्वैर्वरणीय उषो नोऽस्मान् जने जनपद आजनय । आभिमुख्येन प्रादुर्भावय । अवस्थापयेत्यर्थः ॥ बृहती । बृहन्महतोरुपसंख्यानमिति ङीप उदात्तत्वम् । प्रशस्तिकृत् । शन्सु स्तुतौ । भावे क्तिन् । तितुत्रेतीट्प्रतिषेधः । अनिदितामिति नलोपः । तस्मिन्नुपपदे करोतेः क्विप्चेति क्विप् । जनय । जनी प्रादुर्भावे । णिच्युपधावृद्धिः । जनीजॄष् क्नसुरंजोऽमंताश्च । धा १९, ६३-६७ । इति मित्त्वे मितां ह्रस्व इति ह्रस्वत्वं ॥ १९ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः