मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११४, ऋक् ३

संहिता

अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः ।
सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥

पदपाठः

अ॒श्याम॑ । ते॒ । सु॒ऽम॒तिम् । दे॒व॒ऽय॒ज्यया॑ । क्ष॒यत्ऽवी॑रस्य । तव॑ । रु॒द्र॒ । मी॒ढ्वः॒ ।
सु॒म्न॒ऽयन् । इत् । विशः॑ । अ॒स्माक॑म् । आ । च॒र॒ । अरि॑ष्टऽवीराः । जु॒ह॒वा॒म॒ । ते॒ । ह॒विः ॥

सायणभाष्यम्

हे मीढ्वः सेक्तः कामाभिवर्षक नित्यतरुण वा रुद्र क्षयद्वीरस्य क्षपितप्रतिपक्षस्य मरुद्भिर्युक्तस्य वा तव सुमतिं शोभनां कल्याणीमनुग्रहात्मिकां बुद्धिं ते त्वत्संबंधिनो वयं देवयज्यया देवयागेन त्वद्देवत्येन यज्ञेनाश्याम । प्राप्नवाम । त्वं चास्माकं विशः प्रजा अभिलक्ष्याचर । आगच्छ । किं कुर्वन् । सुम्नायन्नित् । सुम्नमिति सुखनाम । तासां प्रजानां सुखमिच्छन्नेव । सुखप्रद एव भवेत्यर्थः । ततो वयमरिष्टवीराः । वीर्याज्जायंत इति वीराः प्रजाः । अरिष्टा अहिंसिता वीरा येषां तथाभूताः संतस्ते तुभ्यं हविश्चरुपुरोडाशादिकं जुहवाम । चोदित आधारे प्रक्षिपाम ॥ सुमतिम् । मतिर्मननम् । शोभनं मननं यस्यां बुद्धौ सा सुमतिः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । देवयज्यया । छंदसि निष्टर्क्येत्यादौ यजेर्यप्रत्ययो निपात्यते स्त्रीलिंगता च । मीढ्वः । मिह सेचने । दास्वान् साह्वान् मीढ्वानिति क्वसुप्रत्ययांतो निपातितः । संबुद्धौ मतुवसो रुरिति रुत्वम् । सुम्नायन् । सुम्नं परेषामिच्छति । छंदसि परेच्छायामपीति क्यच् । न छंदस्य पुत्रस्येतीत्वदीर्घयोर्निषेधः । देवसुम्नयोर्यजुषि काठके (पा ७-४-३८) इति विधीयमानमात्वं व्यत्ययेनात्रापि द्रष्टव्यं ॥ ३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः