मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११४, ऋक् ११

संहिता

अवो॑चाम॒ नमो॑ अस्मा अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

अवो॑चाम । नमः॑ । अ॒स्मै॒ । अ॒व॒स्यवः॑ । शृ॒णोतु॑ । नः॒ । हव॑म् । रु॒द्रः । म॒रुत्वा॑न् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

अवस्यवोऽवोऽन्नं रक्षणं वेच्छंतो वयमवोचाम । एतत्सूक्तरूपं स्तोत्रमवादिष्म । अस्मैरुद्राय नमो नमस्कारोऽस्तु । मरुत्वान्मरुद्भिः स्वकीयै पुत्रैर्युक्तो रुद्रश्च नोऽस्माकं हवमाह्वानं शृणोतु । स्वीकरोतु । यदस्माभिरुक्तं नोऽस्मदीयं तत्सर्वं मित्रादयः षड्देवता ममहंताम् । पूजयंतु । उतशब्दोऽप्यर्थे ॥ अवोचाम । ब्रूञ् वक्तायां वाचि । लुङ् ब्रुवो वचिः । अस्यतिवक्तीत्यादिना च्लेरङादेशः । वच उमित्युमागमः । अवस्यवः । अव रक्षणे । भावेऽसुन् । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । हवम् । भावेऽनुपसर्गस्येत्यप् । संप्रसारणं च । मरुत्वान् । झय इति मतुपो वत्वम् । तसौ मत्वर्थ इति भत्वेन पदत्वाभावाज्जश्त्वाभावः ॥ ११ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः