मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् ५

संहिता

अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे ।
यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस॑म् ॥

पदपाठः

अ॒ना॒र॒म्भ॒णे । तत् । अ॒वी॒र॒ये॒था॒म् । अ॒ना॒स्था॒ने । अ॒ग्र॒भ॒णे । स॒मु॒द्रे ।
यत् । अ॒श्वि॒ना॒ । ऊ॒हथुः॑ । भु॒ज्युम् । अस्त॑म् । श॒तऽअ॑रित्रान् । नाव॑म् । आ॒त॒स्थि॒वांस॑म् ॥

सायणभाष्यम्

हे अश्विनौ अनारंभण आलंबनरहिते समुद्रे तत्कर्मावीरयेथाम् । विक्रांतं कृतवंतौ युवाम् । अनारंभणत्वमेव स्पष्टीकरोति । अनास्थाने । आस्थीयतेऽस्मिन्नित्यौस्थानो भूप्रदेशः । तद्रहिते स्थातुमशक्ये जल इत्यर्थः । अग्रभणेऽग्रहणे । हस्तेन ग्राह्यं शाखादिकमपि यत्र नास्ति तस्मिन्नित्यर्थः । किं पुनस्तत्कर्म । भुज्युं सम्रुदे मग्नं शतारित्रां बह्वरित्राम् । यैः काष्ठैः पार्श्वतो बद्धैर्जलालोडने सति नौः शीघ्रं गच्छति तान्यरित्राणि । ईदृशीं नावमातस्थिवांसमास्थितवंतमारूढवंतं कृत्वास्तम् । गृहनामैतत् । पितुस्तुग्रस्य गृहं प्रति यदूहथुः । तत्प्रापणणन्यैर्दुःशकं युवां समुद्रमध्ये कृतवंतावित्यर्थः ॥ अनारंभणे । आरभ्यत इत्यारंभणम् । कृत्यल्युटो बहुलमिति कर्मणि ल्युट् । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अवीरयेथाम् । शूर वीर विक्रांतौ । चुरादिरात्मनेपदी । अनास्थानाग्रभणयोः पूर्ववल्ल्युट् स्वरौ । अयं तु विशेषः । हृग्रहोर्भ इति भत्वम् । अस्तम् । अस्यतेऽस्मिन् सर्वमित्यस्तं गृहम् । असिहसीत्यादिना तन्प्रत्ययः । शतारित्राम् । ऋगतौ । अर्तिलूधूसू (पा ३-२-१८४) इति करण इत्रप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ५ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः