मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् ९

संहिता

परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रम् ।
क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥

पदपाठः

परा॑ । अ॒व॒तम् । ना॒स॒त्या॒ । अ॒नु॒दे॒था॒म् । उ॒च्चाऽबु॑ध्नम् । च॒क्र॒थुः॒ । जि॒ह्मऽबा॑रम् ।
क्षर॑न् । आपः॑ । न । पा॒यना॑य । रा॒ये । स॒हस्रा॑य । तृष्य॑ते । गोत॑मस्य ॥

सायणभाष्यम्

अत्रेदमाख्यानं । कदाचिन्मरुभूमौ वर्तमानस्य स्तोतुर्गोतमस्य ऋषेः समीपं देशांतरे वर्तमानं कूपमुत्खायाश्विनौ प्रापयेतां । प्रापय्य च तं कूपं स्नानपानादिसौकर्यायोपरिमूलमधोबिलमवास्थापयतामिति । तदेतदाह । हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वा । एतत्संज्ञावश्विनौ युवामवतं । कूपनामैतत् । अवस्तात्ततं कूपं परानुदेथां । गोतमस्य ऋषेः समीपे प्रैरिषाथां । तदनंतरं तं कूपमुच्चा बुध्नं । उच्चैरुपरिष्ठाद्बुद्नो मूलं यस्य स तथोक्तः । जिह्मबारं । जिह्ममधस्ताद्वर्तमानतया वक्रं बारं द्वारं यस्य स तथोक्तः । एवंगुणविशिष्टं चक्रथुः । युवामकृषाथां तस्मात्कूपात्तृष्यते । पिपासतो गोतमस्य पायनाय पानार्थमापो न आपश्च । अयं नशब्दश्चार्थे । क्षरन् । प्रवाहरूपेण निरगमन् । कीदृशस्य । राये । हवींषि दत्तवतः । सहस्राय सहनशीलाय । यद्वा । सहस्रसंख्याकाय । राये धनाय एतत्संख्याधनलाभार्थं चाक्षरन् ॥ अनुदेथां । णुद प्रेरणे । तौदादिक । जिह्मबारं । द्वारशब्दस्य पृषोदरादित्वाद्बारादेशः । क्षरन् । क्षर संचलने । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शपः पित्त्वादनुदात्तत्वं । तिङो लसार्वधातुकस्वरेण धातुस्वरः । पायनाय । हेतुमति णिच् । शाछासाह्वेति युक् । भावे ल्युट् । राये । रा दाने । राति ददातीति राः । रातेर्डैः । उ २-६६ । ऊडिदमिति विभक्तेरुदात्तत्वं । तृष्यते । ञितृषा पिपासायां । श्यन् । लटः शतृ । श्यनो नित्त्वादाद्युदात्तत्वं । षष्ठ्यर्थे चतुर्थी वक्तव्या । पा २-३-६२-१ । इति चतुर्थी ॥ ९ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः