मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् १३

संहिता

अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः ।
श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥

पदपाठः

अजो॑हवीत् । ना॒स॒त्या॒ । क॒रा । वा॒म् । म॒हे । याम॑न् । पु॒रु॒ऽभु॒जा॒ । पुर॑म्ऽधिः ।
श्रु॒तम् । तत् । शासुः॑ऽइव । व॒ध्रि॒ऽम॒त्याः । हिर॑ण्यऽहस्तम् । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥

सायणभाष्यम्

वध्रिमती नाम कस्यचिद्राजर्षेः पुत्री नपुंसकभर्तृका । सा पुत्रलाभार्थ मश्विनावाजुहाव । तदाह्वानं श्रुत्वाश्विनावागत्य तस्यै हिरण्यहस्ताख्यं पुत्रं ददतुः । तदेतदाह । पुरुभुजा बहूनां पालकौ प्रभूतहस्तौ वा हे नासत्यावश्विनौ महे महनीये पूजनीये यामन् यामनि । याति गच्छतीति याम स्तोत्रम् । तस्मिन्सति कराभिमतफलस्य कर्तारौ वां युवां पुरंधिर्बहुधीर्वध्रिमती । वध्रीः पुत्रोत्पादनाशक्तः पंडकः । तद्वती एतत्संज्ञा राजपुत्र्यजोहवीत् । पुनःपुनः स्तुत्या पुत्रलाभार्थमाहूतवती । युवां च वध्रिमत्यास्तदाह्वानं श्रुतम् । अशृणुतम् । तत्र दृष्टांतः । शासुरिव । यथा शासुराचार्यस्य वचनं शिष्योऽवहितः सन्नैकाग्र्येण शृणोति तद्वत् । श्रुत्वा च हे अश्विनौ तस्मै हिरण्यहस्तं सुवर्णमयपाणिं हितरमणीयपाणिं वा । एतत्संज्ञं पुत्रमदत्तम् । प्रायच्छतं ॥ अजोहवीत् । हूयतेर्यङ् लुगंताल्लङ् । यङो वेति तिप ईडागमः । करा । करोतेः पचाद्यच् । सुपां सुलुगिति विभक्तेराकारः । यामन् । आतो मनिन्क्वनिब्वनिपश्चेति मनिन् । सुपां सुलुगिति सप्तम्या लुक् । श्रुतम् । लङि बहुलं छंदसीति विकरणस्य लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शासुः । शास्तुः । शासु अनुशिष्टौ । शंसिशसिशासीत्यादिना (उ २-९४) संज्ञायां तृन् । इडभावः छांदसस्तलोपः ॥ १३ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०