मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् १६

संहिता

श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार ।
तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥

पदपाठः

श॒तम् । मे॒षान् । वृ॒क्ये॑ । च॒क्ष॒दा॒नम् । ऋ॒ज्रऽअ॑श्वम् । तम् । पि॒ता । अ॒न्धम् । च॒का॒र॒ ।
तस्मै॑ । अ॒क्षी इति॑ । ना॒स॒त्या॒ । वि॒ऽचक्षे॑ । आ । अ॒ध॒त्त॒म् । द॒स्रा॒ । भि॒ष॒जौ॒ । अ॒न॒र्वन् ॥

सायणभाष्यम्

वृषागिरः पुत्र ऋज्राश्वो नाम राजर्षिः । तस्य समीपेऽश्विनोर्वाहनभूतो रासभो वृकी भूत्वावतस्थे । स च तस्या आहारार्थमेकोत्तरशतसंख्याकान्पौरजनानां स्वभूतान्मेषान् शकलीकृत्य प्रददौ । ऋज्राश्वः शतमेकं नेत्रहीनमकरोत् । तेन स्तूयमानावश्विनावस्मद्वाहननिमित्तमस्यांध्यं जातमिति जानंतौ तस्मा अक्षिणी प्रायच्छतामिति । तदेतदाह । अत्र तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । य ऋज्राश्वः । शतं शतसंख्याकान्मेषान्वृक्य आत्मनापोषितायै वृकस्त्रियै शकलीकृत्य प्रादात् तं चक्षदानम् । क्षदतिरत्तिकर्मात्र शकलीकरणार्थः । शकलीकृत्य दत्तवंतमृज्रांश्वं पिता शापेनांधं दृष्टिहीनं चकार । कृतवान् । हे नातस्या सत्यस्वभावौ सत्यस्य नेतारौ वा भिषजौ देवानां वैद्यभूतौ । अश्विनौ वै देवानां भिषजौ । ऐ ब्रा १-१८ । इति श्रुतेः । दस्रा दर्शनीयावेतत्संज्ञौ वा हे अश्विनावनर्वन्ननर्वणे द्रष्टव्यं प्रति पितृशापाद्गमनरहिते अक्षी चक्षुषी विचक्षे विविधं द्रष्टुं समर्थे तस्मै ऋज्राश्वायाधत्तम् । व्यधत्तम् । अकुरुतं ॥ वृक्ये । वृकोऽरण्यश्वा । तस्य स्त्री वृकी । जातेरस्त्रीविषयात् (पा ४-१-६३) इति दिति ङीष् । जसादिषु छंदसि वावचनमिति चतुर्थ्येकवचनस्याडभावे यणादेश उदात्तस्वरितर्योयण इति परस्यानुदात्तस्य स्वरितत्वम् । चक्षदानम् । क्षदेर्लिटः कानच् । चित्स्वरः । अक्षी । ई च द्विवचने (पा ७-१-७७) इति परत्वादक्षशब्दस्येकारांतादेशः । स चोदात्तः । तस्मिन्कृते सकृद्गतौ विप्रतिषेधे । परि ४० । इति परिभाषया पुनर्नुम्न भवति । विचक्षे । चक्षेः संपदादिलक्षणो भावे क्विप् । अनर्वन् । ऋ गतौ । अस्मादन्येभ्योऽपि दृश्यंत इति दृशिग्रहणस्य विध्यंतरोपसंग्रहार्थत्वाद्भावे वनिप् । अर्वगमनं विषयं प्रत्येनयोर्नास्तीति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सुपां सुलुगिति द्विवचनस्य लुक् । छादंसो नलोपाभावः ॥ १६ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११