मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् १७

संहिता

आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जय॑न्ती ।
विश्वे॑ दे॒वा अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥

पदपाठः

आ । वा॒म् । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । कार्ष्म॑ऽइव । अ॒ति॒ष्ठ॒त् । अर्व॑ता । जय॑न्ती ।
विश्वे॑ । दे॒वाः । अनु॑ । अ॒म॒न्य॒न्त॒ । हृ॒त्ऽभिः । सम् । ऊं॒ इति॑ । श्रि॒या । ना॒स॒त्या॒ । स॒चे॒थे॒ इति॑ ॥

सायणभाष्यम्

सविता स्वदुहितं सूर्याख्यां सोमाय राज्ञे प्रदातुमैच्छत् । तां सूर्यं सर्वे देवा वरयामासुः । तेऽन्योन्यमूचुः । आदित्यम वधिं कृत्वाजिं धावाम । योऽस्माकं मध्य उज्जेष्यति तस्येयं भविष्यतीति । तत्राश्विनावुदजयताम् । सा च सूर्या जितवतोस्तयो रथमारुरोह । अत्र प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत् । ऐ । ब्रा ४-७ । इत्यादिकं ब्राह्मण मनुसंधेयम् । इदं चाख्यानं सूर्याविवाहस्य स्तावकेन सत्येनोत्तभिता भूमिरिति सूक्तेन विस्पष्टयिष्यते । हे अश्विनौ वां युवयो रथं कार्ष्मेव । कार्ष्मशब्दः काष्ठवाची । यथा काष्ठ माजिधावनस्यावधितया निर्धिष्टं लक्ष्यमाशुगामी कश्चित्सर्वेर्भ्यो धावद्भ्यः पूर्वं प्राप्नोति । एवमेव सर्वेभ्यो देवेभ्यः पूर्वमर्वता शीघ्रमवधिं प्राप्नुवता युष्मदीयेनाश्वेन करणभूतेन युवाभ्यां जयंती जीयमाना सूर्यस्य सवितुर्दुहितातिष्ठत् । अरूढवती । विश्वे सर्व इतरे देवा एतदारोहणस्थानं हृद्भिर्हृदयैरन्वमन्यंत । अन्वजानन् । तदानीं हे नासत्यावश्विनौ श्रिया ऋक्सहस्रलाभरूपया संपदा कांत्या वा युवां सं सचेथे । संगच्छेथे ॥ जयंती । व्यत्ययेन कर्मणि शतृप्रत्ययः । हृद्भिः । पद्दन्नित्यादिना हृदयशब्दस्य हृद्भावः । सचेथे । षच समवाये । स्वरितेत्त्वादात्मनेपदं ॥ १७ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११