मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् २३

संहिता

अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः ।
प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥

पदपाठः

अ॒व॒स्य॒ते । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । ऋ॒जु॒ऽय॒ते । ना॒स॒त्या॒ । शची॑भिः ।
प॒शुम् । न । न॒ष्टम्ऽइ॑व । दर्श॑नाय । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय ॥

सायणभाष्यम्

अवस्यतेऽवनं रक्षणमात्मन इच्छते स्तुवते स्तुतिं कुर्वते कृष्णियाय । कृष्णो नाम कश्चित् । तस्य पुत्राय ऋजूयत आर्जवमिच्छते विश्वकायेत्स्मंज्ञाय ऋषये हे नासत्यौ युवां शचीभिरात्मीयैः कर्मभिर्विष्णाप्वं नाम विनष्टं पुत्रं दर्शनाय दर्शनार्थं ददथुः । दत्तवंतौ । तत्र दृष्टांतः । पशुं न नष्टमिव । एक उपमार्थीयः पूरकः । यथा कश्चिद्विनष्टं पशुं स्वामिनो दृष्टिपथं प्रापयति तद्वत् ॥ आवस्यते । अवस् शब्दात्सुप आत्मनः क्यच् । शतुरनुम इति विभक्तेरुदात्तत्वम् । कृष्णियाय । कृष्णशब्दादपत्यार्थे छांदसो घञ् ॥ २३ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२