मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् १५

संहिता

अजो॑हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्ह॑ः समु॒द्रम॑व्य॒थिर्ज॑ग॒न्वान् ।
निष्टमू॑हथुः सु॒युजा॒ रथे॑न॒ मनो॑जवसा वृषणा स्व॒स्ति ॥

पदपाठः

अजो॑हवीत् । अ॒श्वि॒ना॒ । तौ॒ग्र्यः । वा॒म् । प्रऽऊ॑ळ्हः । स॒मु॒द्रम् । अ॒व्य॒थिः । ज॒ग॒न्वान् ।
निः । तम् । ऊ॒ह॒थुः॒ । सु॒ऽयुजा॑ । रथे॑न । मनः॑ऽजवसा । वृ॒ष॒णा॒ । स्व॒स्ति ॥

सायणभाष्यम्

हे अश्विनौ वां युवां तौग्र्यस्तुग्रपुत्रः प्रोळ्हः पित्रा प्रापितः समुद्रमब्धिं जगन्वान्भुज्युरुदके निमग्नोऽप्यव्यथिर्व्यथां पीडामप्राप्त एव सन्नजोहवीत् । स्तुतिभिराह्वयत् । तमाह्वातारं हे मनोजवसा मनोवद्वेगयुक्तौ वृषणा कामाभिवर्षकावश्विनौ सुयुजा सुष्म्वश्वैर्युक्तेन रथेन स्वस्ति क्षेमं यथा भवति तथा निरूहथुः । जलान्निर्गमय्य युवां पितृगृहं प्रापितवंतौ ॥ जगन्वान् । गमेर्लिटः क्वसुः । विभाषा गमहनविदविशामिति विकल्पनादिडभावः । म्वोश्चेति मकारस्य नकारः । निष्टम् । युष्मत्तत्ततक्षुःष्वंतःपादमिति मूर्धन्यः । मनोजवसा । मनसो जव इव जवो ययोस्तौ तथोक्तौ । सुपां सुलुगिति विभक्तेराकारः । पादादित्वादामंत्रितनिघाताभावे षाष्ठिकमाद्युदात्तत्वं ॥ १५ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५