मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् १६

संहिता

अजो॑हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममु॑ञ्चतं॒ वृक॑स्य ।
वि ज॒युषा॑ ययथु॒ः सान्वद्रे॑र्जा॒तं वि॒ष्वाचो॑ अहतं वि॒षेण॑ ॥

पदपाठः

अजो॑हवीत् । अ॒श्वि॒ना॒ । वर्ति॑का । वा॒म् । आ॒स्नः । यत् । सी॒म् । अमु॑ञ्चतम् । वृक॑स्य ।
वि । ज॒युषा॑ । य॒य॒थुः॒ । सानु॑ । अद्रेः॑ । जा॒तम् । वि॒ष्वाचः॑ । अ॒ह॒त॒म् । वि॒षेण॑ ॥

सायणभाष्यम्

आस्नो वृकस्य । ऋ १-११६-१४ । इत्यर्धर्चे यदुक्तं तदत्र पूर्वार्धेन प्रतिपाद्यते । वर्तिका चटकसदृशस्य पक्षिणः स्त्री वृकेणारण्यशुना ग्रस्ता सती हे अश्विनौ वां युवां तदाजोहवित् आहूतवती यत्सीं यदा खलु वृकस्यास्न आस्यादमुंचतं वर्तिकाममोचयतम् । अपि च युवां जयुषा जयशीलेन रथेनाद्रेः पर्वतस्य सानु समुच्छ्रितप्रदेशं वि ययथुः । शत्रुभिरावेष्टितं जाहुषाख्यं स्तोतारं शत्रुसमूहान्निर्गमय्य तेन सहान्यैर्गंतुमशक्यं पर्वताग्रं गतवंतावित्यर्थः । तदुक्तं परिविष्टं जाहुषमित्यत्र । ऋ १-११६-२० । तथा विष्वाचो विविधगतियुक्तस्यैतत्संज्ञस्यासुरस्य जातमुत्पन्नमपत्यं विषेण क्ष्वेडेनाहतम् । युवांहतवंतौ । यद्वा । वर्तते प्रतिदिनसमावर्तत इति वर्तिकोषाः । वृक । इति विवृतिज्योतिष्कः सूर्य उच्यते । तेन ग्रस्ता सती सा हे अश्विनौ युवामजोहवीत् । आह्वयत् । यदा खलु युवां वृकस्य सूर्यस्यास्न अस्यस्थानीयान्मंडलाद मुंचतं आमोचयतम् । सूर्येणैकीभूतामुषसं पृथक्कृत्योदयात्पूर्वं रात्रेरपरभागे स्थापितवंतावित्यर्थः । तथा च यास्कः । अदित्योऽपि वृक उच्यते यदावृंक्ते । आह्वयदुषा अश्विनावादित्येनाभिग्रस्ता तामश्विनौ प्रमुमुचतुरित्याख्यानम् (नि ५-२१) इति । अपि च जयुषा जयशीलेन रथेनार्द्रेर्मेघस्य सानु समुच्छ्रितप्रदेशं वृष्टिचिकीर्षया विशेषेण ययथुः । युवां गतवंतौ । गत्वा च विष्वाचो विविधगतियुक्तस्य मेघस्य संबंधिना विषेणोदकेन जातमुत्पन्नं सर्व भूतजातमहतम् । आगमयतम् । वृष्टिं कृतवंतावित्यर्थः ॥ अजोहवीत् । ह्वयतेर्यङ् लुगंताल्लङि तिपि यङो वेतीडागमः । अभ्यस्तस्य चेति द्विर्वचनात्पूर्वमेव ह्वयतेः संप्रसारणम् । आस्नः । पद्दन्नित्यादिनास्य शब्दस्यासन्नादेशः । अल्लोपोऽन इत्यकारलोपः । जयुषा । जि जये । औणादिक उसिप्रत्ययः । विष्वाचः । विषु नानाभिमुख्येनांचतीति विग्रहः । ऋत्विगित्यादिना क्विन् । अच इत्यकारलोपः । चाविति दीर्घः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वे प्राप्ते चावित्यंतोदात्तत्वम् । अहतम् । हन हिंसागत्योः । लङ्यदादित्वाच्छपो लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः ॥ १६ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६