मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् १७

संहिता

श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तम॒ः प्रणी॑त॒मशि॑वेन पि॒त्रा ।
आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे॑ ॥

पदपाठः

श॒तम् । मे॒षान् । वृ॒क्ये॑ । म॒म॒हा॒नम् । तमः॑ । प्रऽनी॑तम् । अशि॑वेन । पि॒त्रा ।
आ । अ॒क्षी इति॑ । ऋ॒ज्रऽअ॑श्वे । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । ज्योतिः॑ । अ॒न्धाय॑ । च॒क्र॒थुः॒ । वि॒ऽचक्षे॑ ॥

सायणभाष्यम्

शतं मेषान्वृ क्ये चक्षदानम् । ऋ १-११६-१६ । इत्यत्र यदाख्यानमवादिष्म तदत्राप्यनुसंधेयम् । शतं शतसंख्याकान्मेषान्वृक्ये वृकीरूपेणावस्थितायाश्विनोर्वाहनाय रासभाय ममहानं पूजितवंतमहारार्थं समर्पितवंतमतिवेनासुखकारिणा पित्रा स्वकीयेन जनकेन तमो दृष्टिराहित्येन कृतमांध्यं प्रणीतं प्रापितमृज्राश्वं चक्षुष्मंतमश्विनावकुरुतामिति शेषः । एतदेव विशदयति । हे अश्विनौ अक्षी पितृशापान्नष्टे चक्षुषी ऋज्राश्व एतत्संज्ञके राजर्षावाधत्तम् । पुनर्दर्शन समर्थे अकुरुतम् । एतदेवाह । अंधाय दृष्विहीनाय ज्योतिः प्रकाशकं चक्षुः विचक्षे विविधं जगद्द्रष्वुं चक्रथुः । युवां कृतवंतौ ॥ ममहानम् । मह पूजायाम् । लिटः कानच् । संहितायां छांदसमभ्यासस्य दीर्घत्वम् । प्रणीतम् । प्रपूर्वान्नयतेः कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । प्रिता । उदात्तयण इति विभक्तेरुदात्तत्वम् । अक्षी । अक्षिशब्दाद्विवचने नुमागमश्च प्राप्नोति । ई च द्विवचन इतीकारांतादेशश्च । परत्वादीकारादेशः । कृते तस्मिन् सकृद्गतपरिभाषया पुनर्नुम्न भवति । उदात्त इत्यनुवृत्तेरीकारस्योदात्तत्वं ॥ १७ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६