मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११८, ऋक् ८

संहिता

यु॒वं धे॒नुं श॒यवे॑ नाधि॒तायापि॑न्वतमश्विना पू॒र्व्याय॑ ।
अमु॑ञ्चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जङ्घां॑ वि॒श्पला॑या अधत्तम् ॥

पदपाठः

यु॒वम् । धे॒नुम् । श॒यवे॑ । ना॒धि॒ताय॑ । अपि॑न्वतम् । अ॒श्वि॒ना॒ । पू॒र्व्याय॑ ।
अमु॑ञ्चतम् । वर्ति॑काम् । अंह॑सः । निः । प्रति॑ । जङ्घा॑म् । वि॒श्पला॑याः । अ॒ध॒त्त॒म् ॥

सायणभाष्यम्

अश्विना हे अश्विनौ युवं युवां पूर्व्याय पुरातनाय नाधिताय याच मानाय शयव एतत्संज्ञायर्षये धेनुं निवृत्तप्रसवामदोग्ध्रीमपिन्वतम् । पयसासिंचतम् । सर्वदा पयस्विनीमकुरुतमित्यर्थः । अपि च वर्तिकां वृकेण ग्रस्तां चटकसदृशीं शकुनिमंहसो वृकास्यलक्षणात्पापान्निरमुंचतम् । निरमोचयतम् । यद्वा । पुनःपुनर्वर्तत इति वर्तिकोषाः । तामादित्येनाभिग्रस्तां युवाममोचयतम् । तथा विश्पलायै संग्रामे छिन्नजंघाया अगस्त्यपुरोहितस्य खेलस्य संबंधिन्या एतत्संज्ञायै स्त्रिया अयसीं जंघां प्रत्यधत्तम् । प्रत्यस्थापयतं समयोजयतमित्यर्थः ॥ ८ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९