मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११९, ऋक् ८

संहिता

अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितम् ।
स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥

पदपाठः

अग॑च्छतम् । कृप॑माणम् । प॒रा॒ऽवति॑ । पि॒तुः । स्वस्य॑ । त्यज॑सा । निऽबा॑धितम् ।
स्वः॑ऽवतीः । इ॒तः । ऊ॒तीः । यु॒वोः । अह॑ । चि॒त्राः । अ॒भीके॑ । अ॒भ॒व॒न् । अ॒भिष्ट॑यः ॥

सायणभाष्यम्

हे अश्विनौ परावति दूरदेशे समुद्रमद्ये स्वस्य पितुस्तुग्रस्य त्यजसा त्यागेन निबाधितं पीडितं भुज्युं कृपमाणं युवां स्तुवंतमगच्छतम् । युवां रक्षणार्थं गतवंतौ । यस्मादेवं तस्माद्धे अश्विनौ स्वर्वतीः स्वर्वत्यः शोभनगमनयुक्ता इत इतोमुखाच्चित्राश्चायनीया युवोरह युवयोरेवोतीरूतयो रक्षा आभीके समीपेऽभिष्टयः सर्वैः प्राणिभिरभ्येषणीया अभवन् । भवंति ॥ कृपमाणम् । कृपतिः । स्तुतिकर्मा । अयं च तुदादिर्द्रष्टव्यः । स्वर्वतीः । सुपूर्वादर्तेर्भावे विच् । ततो मतुप् । छंदसीर इति मतुपो वत्वम् । अभिष्टयः । इषु इच्छायाम् । भावे क्तिन् । शकंध्वादित्वात्पररूपत्वं ॥ ८ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१