मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् १

संहिता

का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयो॑ः ।
क॒था वि॑धा॒त्यप्र॑चेताः ॥

पदपाठः

का । रा॒ध॒त् । होत्रा॑ । अ॒श्वि॒ना॒ । वा॒म् । कः । वा॒म् । जोषे॑ । उ॒भयोः॑ ।
क॒था । वि॒धा॒ति॒ । अप्र॑ऽचेताः ॥

सायणभाष्यम्

का राधदिति द्वादशर्चं पंचमं सूक्तं । अत्रानुक्रम्यते । का राधद्द्वादशांत्या दुःस्वप्ननाशन्याद्या गायत्री द्वितीया ककुप् तृतीयाचतुर्थ्यौ काविराण्नष्टरूप्यौ पंचमी तनुशिरा षष्ठ्यक्षरैरुष्टिग्विष्टारबृहती कृतिर्विराट् तिस्रो गायत्र्य इति । अस्यायमर्थः । अनुवृत्तेरौशिजो दैर्घतमसः कक्षीवानृषिः । आद्या गायत्री । विद्वांसावित्येषा ककुप् मध्यमपादस्य द्वादशाक्षरत्वात् । मध्यमश्चेत्ककुप् । अनु ५-३ । इति हि तल्लक्षणं । तृतीया ता विद्वांसेत्येषा काविराट् । नवकयोर्मध्ये जागतः काविराट् । अनु ६-५ । इत्युक्तलक्षणोपेतत्वात् । चतुर्थी वि पृच्छामीत्येषा नष्टरूपी । नववैराजत्रयोदशैर्नष्टरूपी । अनु ६-६ । इत्युक्तलक्षणोपेतत्वात् । प्र या घोष इत्येषा पंचमी तनुशिरा । एकादशिनोः परः षट्कस्तनुशिरा । अनु ५-५ । इत्युक्तलक्षणोपेतत्वात् । श्रुतं गायत्रमित्येषां षष्ठी यद्यपि पादसंख्य योष्णिङ्न भवति तथाप्यक्षरसंख्ययोष्मिक् । युवं हीति सप्तमी विष्टारबृहती । अष्टिनोर्मध्ये दशकौ विष्टारबृहती । अनु ७-५ । इति तल्लक्षणोपेतत्वात् । मा कस्मा इत्यष्टमी कृतिः । जागतावष्टकश्च कृतिः । अनु ६-अ । इत्युक्तलक्षणसद्भावात् । दुहीयन्निति नवमी विराट् । दशम्याद्यास्तिस्रो गायत्र्यः आश्विनं वै इति वैशब्द प्रयोगात्तुह्यादिपरिभाषयेदमपि सूक्तमाश्विनं । आध स्वप्नस्येत्यंत्यया दुःस्वप्ननाशनं प्रतिपाद्यते । अतो या तेनोच्यते सा देवता । अनु २-५ । इति न्यायेन तदेव देवता ॥ सूक्तविनियोगो लैंगिकः । घर्माभिष्टव आदितो नवर्चो विनियुक्ताः । सूत्र्यते हि । का राधद्धोत्राश्विना वामिति नवा भात्यग्निः । अ ४-६ । इति ॥ का राधद्धोत्राश्विना वामिन नव विच्छंदसः । ऐ । ब्रा । १-२१ । इत्यादिकं ब्राह्मणमनुसंधेयं ॥

अश्विना हे अश्विनौ वां युवां का होत्रा । वाङ्नामैतत् । कीदृशी स्तुतिलक्षणा वाग्राधत् । आराधयति । प्रीतौ करोति । युवयोर्माहात्म्यानुरूपा स्तुतिर्नास्तीत्यर्थः । किंच वां युवयोरुभयोर्जोषे जोषणे सेवने प्रीपने वा समर्थः कः स्तोता विद्यते । यष्मद्गुणाभिज्ञः कश्चिदपि नास्तीत्यर्थः । अप्रचेता युवयोर्माहात्म्यमजानंश्च कथा केन प्रकारेण विधाति । युवां परिचरति । युष्मद्विषयं परिचरणमपि न कर्तुं शक्यमित्यर्थः ॥ राधत् । राधसाध संसिद्धौ । लेट्यडागमः । जोषे । जुषी प्रीतिसेवनयोः । भावे घञ् । ञित्त्वादाद्युदात्तत्वं । कथा । था हेतौ च छंदसीति किंशब्दात्प्रकारवचने था प्रत्ययः । किमः क इति कादेशः । विधाति । विध विधाने । तौदादिकः । लेट्याडागमः । अप्रचेताः । प्रकृष्टं चेतो यस्यासौ प्रचेताः । नञ्समासेऽव्ययपूर्वपद प्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२