मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् २

संहिता

वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः ।
नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥

पदपाठः

वि॒द्वांसौ॑ । इत् । दुरः॑ । पृ॒च्छे॒त् । अवि॑द्वान् । इ॒त्था । अप॑रः । अ॒चे॒ताः ।
नु । चि॒त् । नु । मर्ते॑ । अक्रौ॑ ॥

सायणभाष्यम्

इत्थेत्थमनेन पूर्वोक्तप्रकारेणाविद्वानज्ञः स्तोता विद्वांसावित् सर्वज्ञावश्विनावेव दुरो द्वाराणि स्तुतिपरिचरणयोरुपायभूतान्मार्गान्पृच्छेत् । प्रष्टुमर्हति । अपरोऽश्विभ्यामन्यः सर्वोऽप्यचेताः । चेतसा ज्ञानेन रहितः । तस्मादश्विनावेव पृच्छेदित्यर्थः । तौ चाक्रौ शत्रुभिरनाक्रांतावश्विनौ नू चित् क्षिप्रमेव मर्ते मनुष्ये स्तोतरि भक्तानुग्राहकतया सनिं धत्त इति वाक्यशेषः ॥ इत्था । था हेतौ च छंदसीति थाप्रत्ययः । इदम इश् । एतेतौ रथोः । पा ५-३-४ । इतीद्भावः । यदि था हेतौ चेत्यत्रेदंशब्दस्य नानुवृत्तिस्तदानीमिदमस्थमुः । एतदंतात्परस्या विभक्तेर्व्यत्ययेन सुपां सुलुगिति विभक्तेर्डादेशः । अक्रौ । क्रमु पादविक्षेपे । अस्मान्न ञ्युपपदे कृत्यल्युटो बहुलमिति बहुलवचनात्कर्मण्यपि जनसनखनक्रमगमो विडिति विट् । विड्वनोरनुनासिकस्यादित्यात्वं । नञ्स् मासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ २ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२